________________
३७५
१९२]
प्रथमः प्रत्यक्षप्रस्ताव न हि वृत्तावेव सत्त्वमाकाशादौ परोपगते रूपादौ च तदभावेऽपि भावादिति चेत् ; सत्यम् ; सत्त्वमात्रस्य न तद्व्याप्तिः, अवयव्यादिसत्त्वस्य तु विद्यत एव । कुत एतत् ? स्वबुद्धित इति चेत् ; न ; तदनिषेधप्रसङ्गात् । न हि स्वयं वृत्तिव्याप्ततया बुद्धयमानस्यैव तत्सत्त्वस्य निषेधनम् । परबुद्धितः इति चेत् ; परस्यापि यदि तत्र प्रमाणमस्ति न तन्निषेधनम् , तदनुमानस्य तेन प्रतिक्षेपात् । तस्यैव तदनुमानेन प्रतिक्षेप इति चेत् ; न; तत्प्रतिक्षेपे तस्यैवानुत्पत्ति- ५ प्रसङ्गात् , तन्मूलत्वात् , तेन तद्व्याप्तिपरिज्ञाने सत्येव तदुत्पत्तेः । अथ नास्ति प्रमाणम् ; न तर्हि व्याप्तिनिश्चयः, तदभावे च न तन्निषेधः । सत्येव तन्निश्चये व्यापकाभावात् व्याप्य. निषेधोपपत्तरिति चेत् ; न; 'प्रमाणादन्यतो वा' इत्यकृतविचारस्यैव परबुद्धिमात्रस्योपाश्रयात् कथं तदाश्रयणेन कस्यचिन्निषेर्धनम् , अतिप्रसङ्गात् । कथमद्वैताद्यकान्तस्य ? न हि तस्या प्यपरिज्ञातस्यैव निषेधः तन्निषेधानुमानस्याश्रयासिद्धिदोषात् । स्वयं परिज्ञाने च पूर्ववत्तदनुपपत्तेः। १० परबुद्ध्या तत्परिज्ञानस्य प्रमाणभावाभावाभ्यां विचारे प्रागिव दोषात , अकृतविचाररस्यैव परबुद्धिमात्रस्योपाश्रयणं ताथागतस्यापि तदभीष्टमुद्वहेदविशेषात् । ततः स्थितम्-'न चैकं सर्वथा तद्वत्तेरयोगात्' इति । साम्प्रतं पूर्वपक्षसमाप्तिम् इतिशब्देन चेच्छव्देन च पराभिप्राय योतयन्नाह 'इति चेत्' इति ।
अत्रोत्तरमाहएतत्समानमन्यत्र भेदाः संविदसंविदोः ।
न विकल्पानपाकुर्युरन्तर्यानुबन्धिनः ॥९२॥ इति ।
एतदनन्तरोक्तं 'तत्र' इत्यादि, समानं सदृशम् । क ? अन्यत्र । अपि शब्दोऽत्र द्रष्टव्यः । तदयमर्थो न केवलं बहिरर्थे अपि तु अन्यत्रापि विज्ञानेऽपि तस्यैव तदपेक्षया अन्यत्वात् । तथा हि-विज्ञानमपि सांशत्वादिना दोषेण दोषवत् निरन्तरत्वात् बहिरर्थवदिति । न चेदं स्वतन्त्रं साधनम् ; बहिरर्थे तत्वतस्तद्वत्त्वोपगमनानिष्टापत्तेः, २० अन्यथा तन्निदर्शनोपन्यासायोगात् , अपि तु प्रसङ्गापादनम् । तदपि न तत्त्वतस्तत्र तद्वत्त्वव्यवस्थापनार्थम् अतत्र स्वयमपि तदनभ्युपगमात् , अपि तु व्याप्तिविघटनार्थमेव । यदि निरन्तरत्वं दोषवत्त्वेन व्याप्तं विज्ञानेऽपि तद्भवेत् तत्रापि तस्य विद्यमानत्वादिति । तस्यापि बाह्यवत् परित्यागे किमवलम्बनो बहिर्भावं दूषयेत् ? निरवलम्बनस्य तत्पोषणस्याप्यनिवारणात् । ततो नास्ति तस्य "तेन व्याप्तिः, तद्विकलेऽपि विज्ञाने तस्य भावात् । ततोऽनैकान्तिकत्वान्नातो" २५ बहिरथे तरवसाधनमुपपन्नम् । ततो यदुक्तं न्यायवार्तिके- "यः परेण "चोदितं दोषमनु
१ तदभावादि-आ०, ब०, प० । २ निषेधानुमानस्य । ३ प्रतिषेध आ०, ब०, ५०। ४-षेधोऽतिमा., ब०, प०। ५ निषेधानुरपतेः । ६ तथाग-आ०, ब०, ५०। ७ दोषदं भा०, २०, ५०।। स्वतन्त्रसा-भा०, ब०, ५०। ९ निरन्तरत्वस्य । १० दोषवत्त्वेन । " निरन्तरत्वात् । १२ बोधितम् भा०, ५०,५०।