________________
[१२९१
३७४
न्यायविनिश्चयविवरण अन्यथा तदनुपपत्तेः, तथा सर्वात्मैकदेशाभ्यां वृत्तिनिषेधोऽपि प्रकारान्तरेण वृत्तिमभ्यनुज्ञाप. यत्येव, अन्यथा 'न वर्तते' इति अविशेषेणैव वचनप्रसङ्गादिति चेत् ; तत्प्रकारान्तरं तस्य स्वरूपम् , अन्यद्वा गत्यन्तराभावात् ?
स्वरूपं तस्य वृत्तिश्चेत्पटो वर्तत इत्ययम् । विशिष्टप्रत्ययस्तत्र कथं नामोपपत्तिमान् ? ॥९०८॥ भेदे सत्येव यल्लोके विशेषणविशेष्ययोः । दण्डी मनुष्य इत्येवं स प्रतीतिपथं गतः ॥९०९।। भेदकल्पनयाऽसौ चेत्तत्कृता तात्त्विकी कथम् ? । तद्वृत्तिर्भागवान् येन तात्त्विकः परिकल्प्यताम् ॥९१०॥ अतात्त्विकं तु तत्सत्त्वं न बौद्धोद्वेगकारणम् । व्यवहारदृशां तस्य तेनापि स्थितिसाधनात् ॥९११॥ अन्यैव तस्य वृत्तिश्चेत् समवायात्मिका मता। तयापि तस्यासम्बन्धे विशिष्टः प्रत्ययः कथम् ? ॥९१२।। सम्बन्धादेव दण्डादेयतोऽयं दृश्यते नरे। कथं वा तस्य सा वृत्तिः पटस्तन्तुषु यद्भवेत् ॥९१३॥ गर्दभोऽपि तया तेषु न भवत्यन्यथा कथम् ? । लोकः कथं ततो वस्तां पटमेव न गर्दभम् ॥९१४॥ सम्बन्धोऽपि तया तस्य स्वतश्चेत् किन्न तन्तुभिः । इति व्यथैव सैवं चेन्नास्य पूर्व निषेधनात् ॥९१५॥ अन्यतश्चेन्न तेनापि तस्याः सम्बन्धकल्पने । कथं तेन विशिष्टत्वं तस्य यत्तन्मतिर्भवेत् ॥९१६॥ कथं वा स्यात्प्रतिक्षिप्तं गर्दभातिप्रसञ्जनम् । तेनापि तस्य सम्बन्धे स्वतोऽन्यत इति द्वयोः ॥९१७॥ पक्षयोरनवस्थानं प्राच्यदोषानिवर्त्तनात् ।
तन्नान्याप्यस्ति तद्वृत्तिरित्यवृत्तिक एव सः ॥९१८॥
ततो यदुक्तं व्योमवता-"वृत्त्यनुपपत्तिरिति हेतुः स्वरूपासिद्धश्च वृत्तेः समवायस्य सिद्धखात्" [प्रश. व्यो० पृ० ४६] इति ; तत्प्रतिविहितम् ; उक्तेन न्यायेन समवायस्यापि वृत्तित्वासिद्धेः ।
मा भूद्वृत्तिः, तथापि कथमसत्त्वम् ? कथश्च न स्यात् ? वृत्त्या सत्वस्याव्याप्तः ।
प्रतीतिकथं गतः भा०, ५०, ५० । २ कल्पनाकृता। ३ विशिष्टप्रत्ययः। ४-ते तराम् भा०,०, ५०।५ धारयेत् । ६वर्तनम् मा०, ब०, ५०।