________________
१।९१ ) प्रथमः प्रत्यक्षप्रस्तावः
३७३ ततस्तदुत्पत्तेरयोगात् नीलादेः पीतादिवत् । रूपत्वमात्रेणैकजातित्वमेव न जात्यन्तरत्वमित्यपि न युक्तम् ; नीलादेरपि पीतादिजन्मापत्तेः । ततोऽवयवरूपात्तदुत्पत्तौ तस्यापि तजातित्वमेव, तच्च न रूपत्वेनैव, तत्र चित्ररूपस्याभावापत्तेः । नाप्येकेन चित्रत्वेन ; तत्र तदभावस्याभिधानात् । नाप्यनेकनीलत्वादिना; तस्य स्वाश्रयव्याप्त्य॑भावात् । न च तेदव्यापि सामान्यम् ; सर्वगतस्यैव तस्योपगमात्, तदव्यापिनश्च सर्वगतत्वानुपपतेः । ततो न नानाजातिसम्बन्धा. ५ दूपस्य चित्रप्रतीतिगोचरत्वम् , अपि तु स्वरूपभेदादेव । न च तस्यैकत्रावयविनि सम्भवः इत्युपपन्नं तदन्यथानुपपत्त्या तदभावसाधनम्।
भवन्वा कश्चिदवयवी कुत उत्पद्यताम् ? समवाय्यादेः कारणादिति चेत् ; किं पुनर्व्यणुकस्य समवायिकारणम् ? अणुद्वयमिति चेत् ; न; परमाणूनामनुपलम्भेनासत्त्वात् , तत्र समवायिकारणत्वस्य तत्संयोगे चासमवायिकारणत्वस्यासम्भवात् । निमित्तमात्राच्च न तदुत्पत्तिः १० अनभ्युपगमात् , इत्यसत्त्वमेव व्यणुकस्य प्राप्तम् । तदभावे च न तदुत्तरं द्रव्यम् , ततोऽपि न तदुत्तरमित्यन्त्यावयविपर्यन्तस्याभाव एंव तद्व्यस्य स्यात् । नायं दोपः, तस्याहेतुकस्यैव भावादिति चेत् ; अत्राह
स्वतः सिद्धरयोगाच [ तवृत्तेः सर्वथेति चेत् ; ] ॥९१॥ इति
खतो हेतुमन्तरेण सिद्धेर्निष्पत्तेः अयोगाद् अघटनात् । 'न चैकम्' इति १५ सम्बन्धः। च शब्दः पूर्वहेतुसमुच्चये । परमप्यत्र हेतुमाह-'तवृत्तः सर्वथा' इति । तस्य अवयविनः स्वावयवेषु वृत्तिवर्त्तनं तस्याऽयोगाच्च । 'न चैकम्' इति | कथं तदयोगः ? सर्वथा सर्वेण एकदेशेन सर्वात्मना वा इति प्रकारेण । तथा हि-सर्वात्मना तस्य तंत्र वृत्तौ; बहुत्वम् प्रत्यवयवं भेदात् , एकावयवत्वं वा। देशतो वृत्तौ; "तेषां तदन्यत्वं प्राच्यावयववत् , तत्कथं ते तस्य ? तेष्वपि वृत्तेरिति चेत् ; न; सर्वात्मना तनिषेधात् । देशतश्चेत् ; २० न ; पूर्ववदोषादनवस्थानाच्च ।
ननु "बहुध्वन्यतमो देशः, तत्साकल्यं च सर्वम् , न चावयविनो निरंशस्य बहुत्वम् , अतो न सर्वात्मना देशतो वा तस्य वृत्तिः प्रकारान्तरेणैव तद्भावात् तस्य च विशेषप्रतिषेधादेवाभ्यनुज्ञानात् , यथैव हि वामेन चक्षुषा दर्शननिषेधो दक्षिणेन दर्शनमभ्यनुज्ञापयति,
चित्ररूपोत्पत्तेः। २ जात्यन्तरमि-मा०, ब०, प० । । अवयवरूपस्यापि । ४ -प्याभा-माल, ब०,०। ५ स्वाश्रयाध्यापि । ५ स्वरूपमैदान्यथानुपपत्त्या । ७ एवं तद्रूपस्य मा०, ब०, प०। ८ अवय. विनः। ९ अवयवेषु । १. देशानाम् । " "एकस्मिन् भेदाभावाद्भदशब्दप्रयोगानुपपत्तरप्रश्नः-कि प्रत्यक्यवं कृत्स्नोऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः । कस्मात् ? एकस्मिन् भेदाभावाद्भेदशब्दप्रयोगानुपपत्तेः। 'कृत्स्नम्' इत्यनेकस्याशेषाभिधानम् , 'एकदेशः' इति नानात्वे कस्यचिदभिधानम् , ताविमौ कृत्स्नैकदेशशब्दो. भेदविषयौ नैकस्मिन्नवयविन्युपपद्यते भेदाभावादिति ।"-न्याय सू०, मा०४।३।" "तथा हि बहूनामन्यतमाभिधानमेकदेशः । निरवशेषता च सर्वशब्दस्यार्थः । तथा विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयात् प्रकारान्तरेण वृत्तिः प्राप्नोति । अन्यथा हि न वर्तत इति वाच्यम् ।"-प्रश० व्यो० पृ. ४६ ।