________________
३७२
न्यायविनिश्चयविवरणे
[१९१ ने तत्प्रतिभास इति चेत् ; न; तत्रापि 'विभ्रमेतरात्मना' इत्यादेः पौनःपुन्यादनवस्थापत्तेश्च । ततो दूरं गत्वापि पर्यन्ते तत्प्रतिभासचित्रत्वं तात्त्विकमेव वक्तव्यम् , तद्वत्तद्रूपचित्रत्वमप्यविशेषात् । ततो यदुक्तं भासर्वज्ञेन-"तस्माद्विशेषतोऽनिर्देश्यरूपमात्रमेव तत्रोत्पन्नम् , चित्र
प्रतिभासस्तु तत्र चित्रावयवसम्बन्धात् स्फटिके नीलादिप्रतिभासवत्" [ ] ५ इति; तत्प्रतिविहितम् ; तत्त्वत एव तत्र चित्रत्वस्य भावात् । ----
भवतु तत्त्वत एव तंत्र चित्रत्वम् , तत्तु न रूपस्य स्वरूपभेदात् , अपि तु नीलत्वपीतत्वादिनानाजातिसम्बन्धादेव । न चैकत्र नानाजातिसम्बन्धानुपपत्तिः, कुसुमत्वोत्पलादित्वादिनानाजातिसम्बन्धस्यैकत्रापि द्रव्ये दर्शनादिति चेत् ; जातयस्तद्वति व्याप्त्या वर्तेरन् , अव्याप्त्या
वा ? व्याप्त्या चेत् ; न; तथाननुभवात् । न हि नीलत्वव्याप्तमेव तद्रूपं प्रतीयते पीतत्वादेस्त१. त्राप्रतिपत्तिप्रसङ्गात् ।
न हि नीलत्वमात्रेण व्याप्ते वस्तुनि युक्तिमत् । पीतत्वादिपरिज्ञानमन्यत्रैवमदर्शनात् ॥९०२॥ न च नीलत्वमात्रेण तच्चित्रमुपपत्तिमत् । अभावासजनादेवमचित्रस्यैव कस्यचित् ॥९०३॥ अव्याप्त्या तु न जातीनां जातिमत्यस्ति वर्तनम् । गोलागूलत्वगोत्वादिजातिष्वेवमदर्शनात् ॥९०४।। नृत्वसिंहत्वयोरेकप्राणिन्यव्याप्य वर्त्तनम् । दृश्यते चेन्न तत्रापि जातिद्वित्वानपेक्षणात् ॥९०५॥ एकं हि तन्नृसिंहत्वं स्वाश्रयव्यापि दृश्यते । न नरत्वं ततश्चान्यत् सिहत्वं चैकदेशिकम् ।।९०६॥ एवं चित्रत्वमध्येकं सामान्यमिति चेदसत् ।
नानासामान्यसम्बन्धाञ्चित्रमित्यस्य दूपणात् ।।९०७॥
यथैव नरसिंहत्वपुरुष गत्वादिकं नरत्वादेर्जात्यन्तरमेकमेव स्वाश्रयव्यापि च, तद्वचित्रत्वमपि नीलत्वादेरर्थान्तरमेकमेव स्वाश्रयव्यापीति चेत् ; न; "एकस्याप्यनेकनीलादिधर्माधि२५ करणत्वेन चित्रप्रतिभासविषयत्वसम्भवात्' [ ] इत्यस्योपद्रवात् , एकस्यानेक.
त्वायोगान , नीलत्वादिव्यपदेशानुपपत्तेश्च । कुतश्च तजातिमतो रूपस्योत्पत्तिः ? पटादेवेति चेत् ; न; सर्वस्मादपि ततस्तत्प्रसङ्गान्न कश्चिदप्यचित्रः पटः स्यात् । प्राक्तनाच्चित्ररूपादेवेति चेत् ; न; प्रथमनिष्पन्ने पटे तद्रूपाभावापत्तेः पूर्वं तदभावात् । पटावयवरूपादिति चेत् । न ततोऽपि चित्रात् ; अवयवेपु तदभावात् । अचित्रादेवेति चेत् ; न; तस्य जात्यन्तरत्वेन
१न तद्रूप इति श्रा०, ब०,५०।२ तत एव आ०, ब०, ५०।३ रूपे । ४ पटावयवरूपादपि ।