________________
प्रथमः प्रत्यक्षप्रस्तावः
३७१
दर्शनम् , सत्येन तद्हणे तदुपपत्तेः । मा भूदिति चेत् ; कथमविकलंदर्शनं 'तनिष्ठस्वभाव. विकलस्यैव दर्शनात् । तन्निष्ठत्वं नाम तत्समवायः, तस्य च "ततो भेदात् न तस्यादृष्टावप्य. वयविदर्शनस्य वैकल्यमिति चेत् ; कथमर्थान्तरत्वे तस्य तेन तन्निष्ठोऽवयवीति व्यपदेशः १ सम्बन्धादिति चेत् ; तर्हि तत्स्वभावः कथं तददर्शने दृश्येत ? तत्स्वभावतया मादर्शीति चेत् ; न ; दर्शनवैकल्यस्योक्तवात् । तस्यापि ततो भेदादयमदोष इति चेत् ; कथं तेन ५ संम्बद्धोऽवयवीति व्यपदेशः ? सम्बन्धादिति चेत् ; न ; 'तर्हि' इत्यादेरावृत्या चक्रकापत्तेरनवस्थानाच्च । ततो दूरमनुसृत्यापि कस्यचित्सम्बन्धस्य तत्स्वभावत्वं चेदभ्यनुज्ञायेत प्राच्यस्य तनिष्ठत्वस्यैव तदभ्यनुज्ञातव्यम् । न च तस्य सकलावयवाहणमन्तरेण दर्शनम् , आधेयदर्शनस्याधारग्रहणसव्यपेक्षत्वात् । दृश्यावयवनिष्ठतयैव तु दर्शनेऽपि सिद्धे विकलदर्शनम् । न च "तत् अनावृतस्योपपन्नमित्यवयविन्येव अर्धावरणभावान्नासिद्धत्वं साधनस्य । सन्दिग्धव्यति- १० रेकत्वं तु पूर्ववदुद्धाव्य समाधातव्यम् । ततो भवत्येवास्मादपि हेतो कोऽवयवीति ।
तथा "रक्तारक्तत्वादित्यतोऽपि । रक्तारक्तैर्हि तन्तुभिरारब्धे पटे अवश्यम्भवत्येव रक्तारक्तता तया रूपभेदो न भवत्येव तत्रैकस्यैव रूपस्य चित्रस्य भावात् । तथा च प्रतिपत्तिः चित्रमिदं रूपमिति चेत् ; न; 'चित्रं चैकं च' इति व्याघातात्-भेदस्य चित्रार्थत्वात् अभेदस्य चैकार्थत्वात् , भेदाभेदयोश्च परस्परपरिहारस्वरूपाधिकरणतया विरोधस्य सुप्रसिद्धत्वात् । उक्तश्च- १५
"चित्रं तदेकमिति चेदिदं चित्रतरं ततः ।" [प्र० वा० २।२००]
भवतु तदेकमेव न चित्रं नीलपीतादिविशेषैरनिर्देश्यत्वादिति चेत् ; न; तादृशस्याप्रति. भासनात् । अप्रतिभासितस्यापि द्रव्यग्रहणादनुगमः, नीरूपस्य द्रव्यस्य दर्शनायोगादिति चेत् ; कथमनुपलब्धस्य द्रव्यप्रतिपत्त्यङ्गत्वम् अन्यत्रैवमदर्शनात् । तथापि तत्कल्पने किमरूपस्यैव द्रव्यस्य न दर्शनकल्पनम् , अविशेषात् ? भवत्वेकं तद्रूपं प्रतिभासवञ्च, तथापि कथं तत्र चित्र. २० प्रतिभासः ? चित्ररूपावयवसम्बन्धादिति चेत् ; न; उपाधिकृतत्वेन विभ्रमत्वापत्तेः । न चासो विभ्रम एव, चित्राकारवत्तद्रपस्यापि ततोऽसिद्धिप्रसङ्गात् । चित्रत्व एवासौ विभ्रमो न तद्रूप इति चेत् ; न; विभ्रमेतरात्मना 'तस्यैव चित्रत्वापत्तेः, तस्य च वस्तुतस्तत्त्वे 'तद्रूपस्यैव किन्न स्यात् ? तदप्युपाधिनिबन्धनमेव न वास्तवमिति चेत् ; न; तत्प्रतिभासस्यापि विभ्रमत्वापत्तेः । न चासो विभ्रम एव । ततश्चित्रत्ववत्प्राच्यप्रतिभासस्यापि असिद्धिप्रसङ्गात् । चित्राकार एवासौ विभ्रमो २५
1-विकल्पद-आ०, ब०, प० । २ अवयवनिष्ठ । ३ समवायस्य । ४ अवयवात् । ५ समवायेन । ६ सम्बन्धिस्वभावः । ७ तदर्शने आ०, ब०, ५०। सम्बन्ध्यदर्शने । ८ मा न दर्शी-भा०, ब,प०। ९ सम्बन्धोऽव-आ०, ब०,०। १० विकलदर्शनम् । ११ "स्थूलस्यैकस्वभावत्वे मक्षिकापदमात्रतः । पिधाने पिहितं सर्वमासज्येताविभागतः ॥ रक्त च राग एकस्मिन् सर्वं रज्येत रक्तवत् । विरुद्धधर्मभावे वा नानात्वमनुषज्यते ।।"-तरवसं० श्लो० ५८३, ५८४ । ' तथा रागारागाभ्यो विरोधः सम्भावनीयः ।"-अवयवि. नि०पृ०८५। १२ तद्रूपात्प्रतिभास इति आ०,५०,१०/१३ अवयवस्यैव विभ्रमाविभ्रमविषयत्वात् चित्रत्वं स्यादिति भावः । १४ अवयवस्य वस्तृतश्चित्रत्वे । १५ अवयवरूपस्यैव ।