________________
३७० न्यायविनिश्चयविवरणे
[१९१ तदुपलम्भकारणावैगुण्येऽपि संयोगो नोपलभ्यते" [ ] इति । तस्मादेषधर्मत्वादेव संयोगादेः प्रदेशवृत्तित्वं न 'व्याप्यस्य प्रदेशवत्त्वात् । तद्वच्चलनस्यापीति चेत् ; न; तद्धर्मणः संयोगस्यैव बौद्धं प्रत्यसिद्धत्वेन दृष्टान्तत्वानुपपत्तेः । अप्रसिद्धोऽपि परप्रसिद्धेन दृष्टान्तेन समर्थ्यते । तथा च वचनं परस्य-"यथा खन्मते 'निर्विकल्पकेन ज्ञानेन तदेव सविकल्पकं ज्ञानमात्मसदृशं कथञ्चिदुत्पादितं कथश्चिमेत्यभिन्नस्यैवांशः परिकल्प्यते तथा संयोगाद्याधारस्यापीत्यदुष्टं संयोगादेः प्रदेशवृत्तित्वम्" [ ] इति
चेत् ; न ; वैषम्यादुपन्यासस्य । न हि विकल्पज्ञानम् एकान्तेनाभिन्नमेव, सदृशेतरस्वभावयोः तदर्थान्तरत्वाभावानभ्युपगमात् । तदनन्तरत्वे तु कथं ताभ्यामन्योन्यभेदिभ्यामभिन्नस्य
एकान्ताभेदित्वम् ? येनोच्यते-'अभिन्नस्यैव' इति । न चावयविन्यपि कथञ्चिद् भेदवत्येव १० संयोगादेः प्रदेशवृत्तित्वम् , 'संयोगस्यैव' इत्यादिविरोधाद्, अनेकान्तवादोपाश्रयप्रसङ्गाच्च । बौद्ध.
स्यापि कस्मान्न तत्प्रसङ्ग इति चेत् ? क एवमाह-'न' इति ? "चित्रप्रतिभासाप्येकैव बुद्धिः" [प्र० वार्तिकाल० २।२१९] इति वचनात् । क इदानीं जैनात्तस्ये विशेष इति चेत् ? न ; पर्यन्ते तस्यापि तेन निराकरणात् "अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४]
इत्यादिवचनात् । तन्न संयोगदृष्टान्तेन स्वभाव्यादेव |देशवृत्तित्वं चलनस्य, अपि तु व्याप्य१५ भेदादेव इति न सन्दिग्धो व्यतिरेकः, तन्निश्चयस्यैव भावात् । तस्मादुपपन्नमेतत्-'नैकोऽवयवी चलाचलत्वात् , अन्यथा तदयोगादिति ।
"तथा, 'आवृताऽनावृतत्वात्' इति च । नन्विदम् अवयवेष्वेव भिन्नेषु नावयविनि तस्मादसिद्धमिति चेत् ; अवयविनि तर्हि किम् ? आवरणमेवेति चेत् ; न ; मनागप्यदर्शन.
प्रसङ्गात् । 'अनावरणमेव' इत्यपि न युक्तम् ; अविकलस्य दर्शनापत्तेः। अविकल एव स दृश्यत २० इति चेत् ; न; तथानुभवाभावात् , सन्देहानुपपत्तेश्च । न हि अविकलदृष्ट एव सन्देहः । भवति
चायम् अर्धावृतं पश्यतः 'किमयं देवदत्तः किं वा तदपरः' इति च । अवयवाग्रहणात् सन्देह इति चेत् ; तदग्रहणेन तदर्शनस्य प्रतिबन्धे कथमविकलदर्शनकल्पनम् ? अप्रतिबन्धे तु कथं तत्र सन्देहो निश्चिते 'तदनुपपत्तेः, निश्चयस्य तद्विरोधित्वात् । निश्चयरूपं च दर्शनम् ,
"व्यवसायात्मकं ज्ञानं प्रत्यक्षम्" [ ] इति वचनात् । कथं 'चीयमवयवग्रहण. २५ मन्तरेण दृश्येत ? तेंद्रहणस्य तद्दर्शनं प्रत्यनङ्गत्वादिति चेत् ; न; कतिपयावयवाहणाभावेऽपि
'तत्प्रसङ्गात् । सकलावयवग्रहणमेव तदनङ्गमिति चेत् ; कथमिदानीं सकलावयवनिष्ठतया तस्य
१ अवयविनः। २ निर्विकल्पकज्ञानेन । ३ -भावादनभ्यु-ता। विकल्पज्ञानात् तत्स्वभावयौर्मिक्षत्वाभ्युपगमात् । ४ विकल्पज्ञानस्य । ५ बौद्धस्य । ६ चित्र प्रतिभासाप्येकैव बुधिरिति वचनस्यापि । प्रतिदेश-भा०, ब०। ८ तु द्रव्यव्याप्य-मा०, ब०,०1९ नैकावयवी आ०, ब०, प०।१. तथा वृथा नाव-आ०, ब०, प० । “अथवा अन्यथाऽयं विरुद्धधर्मसंसर्गः। तथा हि-आवृते एकस्मिन् पाण्यादौ स्थूलस्यार्थस्य भावतानाधृतरूपे युगपद्भवन्तौ विरुद्धधर्मद्वयसंयोगमस्य आवेदयतः।"-अवयविनिरा०पू०८५।" सन्देहानुपपत्तेः । १२ अवयवी । १३ अवयवग्रहणस्य । १४ अवयविदर्शनप्रसङ्गात् । १५ अवयविदर्शनानङ्गम् ।