________________
१९१]
प्रथमःप्रत्यक्षप्रस्तावः
व्याजेन कथनात् । तत्र चास्त्येव व्याप्तिप्रसिद्धिः-यस्मिन् चलत्यपि यन्न चलति न तत्तेनैकं यथा पर्णेन पाषाणः, चलत्यपि पाणिशरीरे न चलति प्रदेशान्तरशरीरमिति । तत्कथन्न दृष्टान्तो 'न च' इत्यादि सूक्तं भवेत् ? सूक्तमेवेदम् , अवयविनमनभ्युपगच्छतः पर्णपाषाणयोरप्यभावादिति चेत् ; न ; व्यवहारप्रसिद्ध्या तदभ्युपगमस्योक्तत्वात् ।
यदप्येतदपरं तस्यैव-"न ह्येवं कश्चिदनुन्मत्तः प्रत्यवतिष्ठते नास्त्येको वन्ध्यापुत्रः ५ तस्य पाण्यादिकम्पे सर्वकम्पप्राप्तेः, अकम्पने वा चलाचलयोः पृथसिद्धिप्रसङ्गः खपु. पखरशृङ्गवत्" [ ] इति ; तदापे न सुभाषितम् ; वन्ध्यासुतविलक्षणस्यावयविनः खपुष्पादिविलक्षणयोश्च पर्णपाषाणयोर्बोद्धमतेऽपि प्रसिद्धत्वात् । तदवष्टम्भेन प्रत्य. वतिष्ठमानस्योन्मत्तत्वानुपपत्तेः । तन्नागृहीतव्यापको हेतुः ।
नाप्रसिद्धः ; तत्प्रतीतिभावात् । नमु चलप्रतीतिरचलत्यपि रूपादिवच्चलावयवसम- १० वायात् , तथा चलत्यपि अचलप्रतीतिः अवलावयवसमवायानिमित्तात् सम्भवति तत्कथं तन्मात्रात् क्वचिचलाचलत्वं तत्त्वतः सिध्यति ? विभ्रमस्य असत्यपि तस्मिन् सम्भवात् , ततः सन्दिग्धासिद्धो हेतुरिति चेत् ; कथं ततः शरीरस्यापि सिद्धिः, विभ्रमस्तदयोगात् ? चलादि. रूप एव तद्विभ्रमो नं शरीर इति चेत् ; न ; विभ्रमेतररूपतया प्रत्ययभेदप्रसङ्गात् । न च भिन्न एव तत्प्रत्ययः, 'चलति शरीरम्' इति, विशेषणविशेष्यविषयस्यैकस्यैव तस्यानुभवात् । १५ भ्रान्तस्तदनुभव इति चेत् ; कथं ततः प्रत्ययस्यापि सिद्धिः विभ्रमात्तदयोगात् ? तदेकत्व एव स विभ्रमो न प्रत्यये इति चेत् ; न; विभ्रमेतररूपतया तद्भेदप्रसङ्गात् । न च भिन्न एवानुभव 'एक एवायम्' इति विशेष्यविशेषणविषयस्यैकस्यैव तस्यानुभवात् । भ्रान्तस्तदनुभव इति चेत; न ; प्राच्यप्रसङ्गानुबन्धादनवस्थानोपनिपातात् । ततः शरीरवञ्चलाचलत्वादावप्यभ्रान्त एव प्रत्यय इति वस्तुत एव तत्सिद्धेः कथं सन्दिग्धासिद्धत्वं साधनस्य ?
___ मा भूत्सन्दिग्धासिद्धत्वं सन्दिग्धव्यतिरेकत्वं तु स्यात् , संयोगवच्चलनस्यापि देशवृत्तित्वेनैकस्यापि चलाचलप्रत्ययविषयत्वाविरोधादिति चेत् ; न ; प्रदेशाभावे प्रदेशवृत्ति. त्वानुपपत्तेः । अव्यापकत्वमेव तस्य तद्वृत्तित्वमिति चेत् ; न ; प्रदेशाभावे तस्यैवानुपपत्तेः । संदधिष्ठितेतरप्रदेशसद्भावे हि 'तंत्र तस्याव्यापकत्वं नान्यथा । संयोगस्य कथमित्यपि न युक्तम् ; तत्रापि समानत्वात् तत्पर्यनुयोगस्य, तस्याप्येकावयविनि अव्यापकत्वानुपपत्तेरिति । व्याप्यस्य' २५ 'प्रदेशवत्वान्न संयोगस्याव्यापकत्वम् , अपि तु तद्धर्मत्वात् । तथा च परस्य वचनम्"संयोगस्यैव ह्येवं धर्मो येन यत्र यत्रावयवे सम्बद्धोऽवयवी दृश्यते तत्र तत्र रूपादिव
२०
अत्र 'यतः'इत्याध्याहार्यम् । २ भासर्वज्ञस्यैव । ३ न चल-आ०, ब०, प०। ४ प्रतीतिमात्रात् । ५ अनुभवात् । ६ एवायमनु-आ०, ब०, ५०। ७ अव्याप्यवृत्तित्वेन । ८ अव्यापकत्वस्यानुपपत्तः । ९ तदधिष्ठितप्रदेशाद भिन्न प्रदेशसभावे । १० इतरप्रदेशे।" अवयविनः । १२ प्रदेशत्वा-आ०,०,०।१३ अध्यापकत्वं हि संयोगस्यैव धर्म इति भावः ।