SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३६८ [ १९१ न्यायविनिश्चयविवरणे 'निष्पर्यायं तत्रैव रागादिस्तदभावश्वोपपन्नो विरोधात् । ततः पाण्यादौ रागे चलने चावरणे च प्रदेशान्तरेऽपि तत्प्रतिपत्तिः स्यात् , न चैवम् , तत्र तदभावस्यैव परिज्ञानात् । प्रदेशान्तर. वद्वा पाण्यादावपि न तत्प्रतीतिः स्यात् ततः तस्यैकान्तेनाभेदात् । न चैवम् , पाण्यादौ तद्भावस्य प्रदेशान्तरे च तदभावस्य निर्विवादं प्रतिपत्तेः । भिन्न एव परस्परं प्रदेशाः प्रदेश्येव ५ तु तद्गतो न भिद्यते तदयमप्रसङ्ग इति चेत् ; एवमपि प्रदेशगतश्चलनादिः प्रदेशिनं यदि नोपसर्पति तत्रैव चलतः प्रदेशादचलतस्तस्य पृथसिद्धिः स्यात् । एवं रागादावपि । उपसर्पतीति चेत् ; न ; तत्रैव इतरेष्वपि चलत एव तस्य परिज्ञानापत्तेः । एवं रागादावपि । न चैवम् । तन्न "चलाचलादिः कश्चिदेकोऽवयवीति । तदुक्तम् "पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेविरोधिनः । एकत्र कर्मणो[s]योगात्स्यात्पृथक्सिद्धिरन्यथा ॥ एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ । दृश्येत रक्त चैकस्मिन् रागो[5] रक्तस्य वा[5]गतिः ॥ नास्त्येकः समुदायोऽस्मात्" [प्र०वा० १।८६-८८] इति । अत्र यद्भासर्वज्ञस्य प्रत्यवस्थानम्- “यत्तावन्नास्त्येकोऽवयवी तस्य पाण्यादिकम्पे १५ सर्वकम्पप्राप्तेरिति ; तदयुक्तम् ; व्याप्तेरप्रसिद्धत्वात् । न हि यस्य पाण्यादिकम्पे सर्व कम्पप्राप्तिः तस्याभावः इत्येवं व्याप्तिः क्वचिद्गृहीता । नापि यस्य सत्त्वं तस्य न पाण्या दिकम्पे सर्वकम्पप्राप्तिः इत्येवं व्याप्तिः परेण दृष्टा । न च दृष्टान्ताभावे स्वपक्षसिद्धौ परपक्षनिराकरणे वा क्वचिद्धेतोः सामर्थ्य दृष्टम् ” [ ] इति ; तन्न युक्तम् ; बौद्धमतानभिज्ञानात् । न ह्यत्र बौद्धेन विशेष्यस्यैवायवयिनो निषेधः साध्यत्वेनाभिप्रेतः , स्वय. मपि व्यवहारप्रसिद्ध्या तस्याभ्युपगमात् , अपि तु तद्विशेषणस्यैकत्वस्यैव तत्रैव विप्रतिपत्तेः । अत एव 'नास्त्येकः समुदायः' इत्युक्तम् , अन्यथा 'नास्ति समुदायः' इत्येवोच्येत । हेतुरत्र चलाचलादिरूपो विरुद्धधर्माध्यास एव, तस्यैव साध्यविपक्षे "तद्विरुद्धधर्मप्रसङ्गापादन. १ युगपत् । २ चलनादिप्रतीतिः । ३ प्रदेशिनः। ४ "न चेदमिष्टापादनं योग नाम् तैरयतसिद्धयोः पृथ. सिद्धयनङ्गीकारात्'-ता०टि०। ५ चलादिः आ.,ब०,प० । ६ "पाण्यादिकम्पे सर्वस्य कम्पप्राप्तः । यदि पाण्यादयोऽत्रयवा एवावयव्येकरूपस्तदा पाण्यादेः कम्पे सति सर्वस्य पादादेरपि कम्पः प्राप्नोति । एकस्मिंस्तस्मिन् कर्मणः कम्पस्य विरोधिनोऽकम्पस्यायोगात् । ........ अथावयवेभ्यो भिन्नोऽवयवी। अत एवैकस्मिन्नवयवे कम्पमाने नावयवान्तरस्य कम्पः तदापि स्यात्पृथक्सिद्धिरन्यथा अवयवावयविनोभेंदे पृथकम्पमानादवयबादकम्पमानस्यावयविनः समवेतस्य भेदेन तत्रैवावयवे सिद्धिः स्यात् वस्त्रोदकवत् ।..." अथाभेदपक्षे एकस्यावयवस्यावृतौ सर्वस्यावृतिश्च स्वादिति प्रसङ्गः। भेदपक्षमाश्रित्यानावृतौ चावयविनः स्वीक्रियमाणायामावृत एवावयवेऽनावृतोऽसौ दृश्यतेति प्रसशः। अथाभेदपक्षे रक्त चैकस्मिन्नवयवे सर्वत्रावयये रागो दृश्येतेति प्रसङ्गः । भेदपक्षे तु रक्त एवाक्यवेऽरक्तस्य चावयबिनो वाऽगतिः स्यादिति प्रसङ्गः।"-प्र. वा०म० वृत्ति ११८६-८७ । अवयविनि पृ० ८५। ७-क्षनिवारणेभा०,०प०1८ बौद्धस्य वि-आ.ब.प० । ९-च्यते आ०,०प०।१० तद्विरुद्धधर्माप्रस-आ०, ब०,५०।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy