________________
१९१] प्रथमः प्रत्यक्षप्रस्ताव
३६७ कथमेवं 'तैस्तस्य सावयवत्वम् ? सम्बन्धादिति चेत् ; न; 'तैरपि दिग्भागभेदिभिरभिसम्बद्ध्यमानस्य तस्य पुनः पडंशतापत्तेः । पुनः तदंशानां तद्व्यतिरेकपरिकल्पनायामनवस्थानं प्राच्यदोषानतिवृत्तेः । न चापर्यवैसायिनस्तदंशाः प्रतीतिविपयाः । तन्नैकदेशेन तेषां संयोगः । सर्वात्मनेति चेत् ; आह
नो चेत्पिण्डोऽणुमात्रः स्यात् [न च ते बुद्धिगोचराः] ॥९०॥ इति । ५
नो चेत् न यदि षडंशाः परमाणव एकदेशेन संयोगस्याभावात् सर्वात्मनैव तद. भ्युगमात, तथा च पिण्डः परमाणुप्रचयः अणुरेव अणुमात्रः स्यात् भवेत्। दिग्भागभेदिनां हि परमाणूनां सर्वात्मना मध्यपरमाणुना सम्बन्धे तदनुप्रवेशस्यावश्यम्भावात् । स एवैकोऽवशिष्यत इति मन्यते । तथा च न कार्य तस्यैकद्रव्यस्यासम्भवात् , "[अ] द्रव्यमनेकद्रव्यं च द्रव्यम्"[ ] इत्यभ्युपगमात् ।
__भवतु वा कथमपि संयोगः, स तु कथमप्रतिपन्नानाम् ; अतिप्रसङ्गात् , अप्रतिपन्नाश्च परमाणवः प्रत्यक्षतस्तदप्रतिभासनात् । तदाह-न च ते बुद्धिगोचराः इति । न च नैव ते परमाणवो वुद्धेः अध्यक्षसंविदो गोचरा विषयाः स्थूलस्यैव स्तम्भा. देस्तत्र प्रतिभासनात् । तथापि तत्कल्पनायाम् अव्यवस्थापत्तेः । अनुमानात्तर्हि तत्प्रतिपत्तिः; तच्चेदम्-विवादापन्नं तद्व्यणुकं स्वतोऽल्पपरिमाणावर्यवारब्धं कार्यत्वात् पटादिवत् । ये च १५ ततोऽल्पपरिमाणाः ते परमाणव इति चेत् ; न पटादेरेव "परकल्पितस्याभावात् , निदर्शनत्वानुपत्तेः । अभावश्च तस्य परिस्फुटमनवभासनात् । तदाह
न चैकम् [एकरागादौ समरागादिदोषतः।] इति ।
न च नैव एकम् अखण्डम् अवयवनिष्क्रान्तं 'पटादि इति । 'कुतः' इति प्रश्ने 'न च ते' इत्यादि । न च तद्बुद्धिगोचर इति वचनपरिणामेन हेतुपदमभिधातव्यम् । २०
हेत्वन्तरमाह-एकरागादौ समरागादिदोषतः इति । राग आदिर्यस्य चलनावरणादेः स तथोक्तः एकस्य प्रदेशस्य रागादिरेकरागादिस्तस्मिन् समः साधा. रणः प्रदेशान्तरस्य रागादिः स एव दोषस्तस्मात्तत इति । एकत्वे हि शरीरादेः क्वचिद्रागादौ सर्वत्र तेन भवितव्यं रागादिमतः प्रदेशात्तदपरस्यानन्तरत्वात् । न हि
पृथग्भूतावयवैः परमाणोः । २ स्वावयवैः । ३ अनन्ताः । ४ सम्बद्धस्तत्तदनो-मा०, ब०, प.। ५-विशेषतः ति आ०, ब०, प०। ६ कार्यस्य । ७ "तथा अद्रव्यं द्रव्यमनेव द्रव्यं च द्रव्यमिति वचनव्याघातः । तथा हि न विद्यते जन्यं जनकं च द्रव्यमित्यद्रव्यम् । परमाणूनां जनकं नास्त्याकाशादीनां जम्यं मापि बनकमित्यद्रव्यम् , नित्यद्रव्यमिति यावत्। अनेकद्रव्यं वनेकद्रव्यं जनकमस्येत्यनेन स्वरूपेण द्विविधमेवं द्रव्यमद्रव्यं नित्यमनेक. द्रव्यजन्यं कार्यमिति । एकद्रव्यस्य च कार्यद्रव्यस्याभ्युपगमे व्याहतमेतद् भवतीति ।"-प्रश. यो. पृ. २३१ । ८-नंद्य-आ०, ब०, प० । “तथा कार्यादल्पपरिमाणं समवायिकारणम् । तस्याप्यन्यदल्पपरिमाणमित्याचं कार्य निरतिशयाणुपरिमाणैरारब्धमिति ज्ञायते ।"-प्रश० व्यो. पृ. २२४ । “कार्यपरिमाणापेक्षया तदवयवपरिमाणस्य लोकेऽल्पीयस्त्वप्रतीतेः यश्च तस्यावयवः स परमाणुर्भविष्यति ।"-प्रश. कन्द• पृ. ३१। ९-वयवकारणारब्ध भा०,०,५०।१० वरपरिक-मा०, ब०, ५०।११ घटादिति भा०, ब०, प० ।