________________
१०
स्यायविनिश्वयविवरणे
२५
३६६
( 2180
दिङ्नागादि:' ? कथं वा तत्प्रामाण्यादसन्तमेव तमनपायिनं प्रतिपद्यमानो न विप्रलब्धो धर्मकीर्त्तिः ? काल्पनिकस्य च तत्सत्त्वस्य प्रतिक्षेपात् । अप्रतिक्षेपेऽपि कुतस्तस्य तदनपायित्वं प्रतिबन्धस्य तात्विकस्याभावात्, कल्पितस्य विपक्षेऽप्यविशेषात् । तस्मादसन्तमसाध्यप्रतिबन्धञ्च मनपायिनं प्रतिपद्यमानो वश्चित एवायम् अतश्च यदस्य विद्वत्ताशंसनं तदपि कुत्सितमिति । साध्यसाधनसङ्कल्पवस्तुतत्त्वं न वेश्ययम् ।
वर्णयत्यपि तद्वत्वं मूढत्वं किमतः परम् ॥ ९०० ॥
शास्त्रकारः पुनरत्र विषादमावेदयन्नात्मनि कारुणिकत्वं प्रदर्शयति - 'हा कष्टम्' इति -
अविद्योल्लासमुत्पश्यन् दिङ्नागादौ सुदुःखदम् ।
हा कष्टमिति देवोऽयं कृपालुत्वाद्विषीदति ॥ ९०९ ॥
तस्मान्न कल्पितस्य तन्नियमस्य सम्यहेतुत्वं यतो नीलतज्ज्ञानयोरभेदः सिद्ध्य ेत् । कः पुनरयं नीलादिर्नाम यस्य तज्ज्ञानभेदिनो बहिरर्थत्वं परिकल्प्येत ? परमाणुसन्दोह इति चेत्; न; तत्र छ।यावरणादेरर्थप्रयोजनस्यासम्भवात् । न हि परमाणवः छायाविधायिनो विरलपरिमण्डलात्मनां छत्रादिरूपतानुपपत्तेः । अत एव न पततो जलादेराधार१५ कारिणः । कथं वा तत्रैकाकर्षणे नियममेनान्याकर्षणं भेदे तदनुपलम्भात् । नायं दोषो योग्यताविशेषात् । दृश्यते हि भेदेऽपि तद्विशेषादयस्कान्ताकर्षणे लोहाकर्षणं तद्वत्परमाणुष्वपि भवेत् । नापि तत्र छायावरणादेरप्यसम्भवः; योग्यतावलादेव तस्याप्युपपत्तेः, दृश्यते हि तद्बलाद् बहुछद्राणामपि चपकादीनां पतदम्भः प्रतिबन्धित्वमिति चेत्; स्यादेतदेवम् ; यदि परमाणवः प्रतीयेरन्, न चैवम् एकैकशः समुदायेन वा तत्प्रतिपत्तेरप्रतिवेदनात् । न चाप्रतिपन्नेषु २० दृष्टान्तमात्राद् इदन्त्वम् अनिदन्त्वं वा शक्यव्यवस्थापनम् अतिप्रसङ्गात् । तन्न तत्सन्दोहो नीलादिः । तदारब्धोऽवयवीति चेत्; न; परमाणूनां निरपेक्षतया तदारम्भकत्वे पृथग्दशायामपि प्रसङ्गात् । संयोगसव्येपक्षाणां तत्त्वे संयोगो यद्येकदेशेन अव्यवस्थापत्तिः । तदाह
,
"
तत्र दिग्भागभेदेन षडंशाः परमाणवः । इति ।
तत्र तस्मिन् संयोगे दिश एव भागा दिग्भागाः तैर्भेदस्तेन षडंशाः षडवयवाः परमाणवो भवेयुरिति शेषः । तथा हि- पार्श्वदिग्भागेषु चर्तुषु उपर्यधस्ताच्च व्यवस्थितैः परमाणुभिरभिसम्बध्यमानस्य मध्यपरमाणोरवश्यम्भाविनः षडेकदेशाः तदभावे प्रत्येकं तत्सम्बन्धानुपपत्तेः । तथा च सुव्यवस्थितं नित्यत्वम्, सावयवत्वे विनाशस्यावश्यम्भावात् । कथं वा परमाणुत्वम्, सावयवस्य कार्यद्रव्यवत् स्थूलत्वात् ? तदवयवानां तद्व्यतिरेकादिति चेत्;
१- दिकः क-आ०, ब०, प० । २ -स्य च प्र- भा०, ब०, प० । ३ तदनुपायत्वं आ०, ब०, प० । ४ सहोपलम्भनियमस्य । ५ योग्यताविशेषात् । ६ परमाणुसमुदायः । ७ " पट्केन युगपद्योगात् परमाणोः पड. शता । षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥ " - विज्ञप्ति० वि० पु० ७ । चतुःश० पृ० ४८ । तस्वसं० पृ० २०३ ।