________________
१८९] प्रथमः प्रत्यक्षप्रस्ताव
३६५ मुदाहरणस्य । नापि साध्यवैकल्यम् अभेदे संसारिणि सुगतत्वस्य सुगते च संसारित्वस्यानभिमतस्य प्रसङ्गात् । संसारीतरविभाग एव नास्ति संविदद्वैतस्यैव तत्त्वतो भावात् तत्कथं तस्योदाहरणत्वमिति चेत् ? कथमिदानी तेदभेदानुमानं तद्वैते धर्मिहेतूदाहरणविभागाभावात् , अनुमानस्य च तन्मूलत्वात् । तदपि मा भूदिति चेत् ; न तर्हि भवानस्माकं प्रतिवादी तद. नुमानवादिन एव तत्त्वात् , तेन चास्यातिप्रसङ्गस्य दुष्परिहरत्वादिति कथमतो न भेदसिद्धिः ? ५
तदयं प्रतिपक्षमनपाकुर्वत एव कल्पिताखेतोः साध्यसिद्धिं तात्त्विकीमन्विच्छन् कथमिव प्रज्ञावन्तमात्मानं प्रेक्षावद्भ्यः प्रकटीकुर्यात, यदि केनापि निष्ठुरहृदयेन विप्रलब्धो न भवेत् । तदेवाह
साध्यसाधनसङ्कल्पस्तत्त्वतो न निरूपितः । परमार्थावताराय कुतश्चित्परिकल्पितः ॥८८॥ अनपायीति विद्वत्तामात्मन्याशंसमानकः । केनापि विप्रलब्धोऽयं हा ! कष्टमकृपालुना ॥८९॥ इति ।
साध्यं नीलतज्ज्ञानयोरभेदः साधनं सहोपलम्भनियमः , तयोः सङ्कल्पः समर्थन स तत्त्वतः "निरंशवस्तु समाश्रित्य न निरूपितः न स्थापितः, निरंशत्वे साध्यादिधर्मभेदस्य, तस्मिंश्च निरंशत्वस्यासम्भवादिति भावः । कीदृशस्तर्हि स इत्याह-परिकल्पितः १५ अध्यारोपितः । कुतः परिकल्पितः ? कुतश्चिद्विकल्पबुद्धिबलात् । किमर्थम् ? परमार्थावताराय परमार्थस्य नीलतज्ज्ञानाभेदस्यावतारः प्रतिपाद्यचेतसि प्रवेशनं तस्मै इति । कुतः पुनः परिकल्पितस्य तदवतारार्थत्व(त्वम् ?) इति चेत् ? अनपायी अव्यभिचारी यत इति । न ह्यपरिकल्पितस्यापि तदर्थत्वम् अव्यभिचारादन्यतः तस्य । परिकल्पितेऽपि भावे कथं तस्यापि न तदर्थत्वमिति मन्यते । अत्र दूषणम्-इति एवं विद्वत्ता प्रज्ञाबलशालिताम् आत्मनि २० स्वरूपे आशंसमानकः "न्यायमार्गतुलारूढं जगदेकत्र मन्मतिः” [ ] इत्यादिना कुत्सितमाशंसमानः अयं प्रसिद्धो धर्मकीर्तिः केनापि दिङ्नागादिना विप्रलब्धो वश्चितः । कीदृशेन ? अकृपालुना निष्कृपेण । सकृपस्य परवञ्चकत्वासम्भवात् । कचकत्वञ्च तस्यासत एव तत्सङ्कल्पस्योपदेशात् । कल्पनया सन्नेवासाविति चेत् ; न; तस्या" एव साध्यसाधनोभयधर्मपरामर्शद्वयात्मनो निरंशवस्तुवादेऽनुपपत्तेः। तस्या अपि कल्पनयोपपत्ता- २५ कव्यवस्थापत्तेः। ततो न तात्त्विकस्तत्सङ्कल्पो नापि सांवृत इति कथं तदुपदेशी न वश्चको
नीलतद्धियोरभेदानुमानम् । २ प्रतिवादित्वात् । ३ दुष्परिहार-आ०, ब०, प.।४ादपि च यदि-मा०, ब०, ५०। ५ निरंशं वस्तु आ०, ब०,५०।६ परमार्थावतारार्थत्वम् । ७ अव्यभिचारस्य । ८ "न्यायमार्गतुलारुढं जगदेकत्र यन्मतिः । (हेतु.बि. पृ.१) इत्यनेन अर्चटेन धर्मकीर्तिस्तवनं कृतम् । अनेन ज्ञायते यत् धर्मकीर्तिनापि कस्मिश्चिदन्थे 'न्यायमार्गतुलारूढम्' इत्यादिभिरेव स्वस्तवनं कृतम् । ९ सङ्कल्पः । १. कल्पनाया एव ।