________________
३६४
न्यायविनिश्चयविवरणे
[ ११८७
इत्यादेः तादात्म्यादिपर्यन्तस्योपनिपातात् । पुनरभावरूपतलिङ्ग परिकल्पनायां चक्रकदोषादनवस्थापत्तेश्च । तन्नानुमानादपि 'तत्परिज्ञानमित्यज्ञातासिद्धत्वादहेतुरेवायम् ।
कथं वास्यानर्थस्य हेतुत्वम्, “अर्थो ह्यर्थं गमयति” [ ] इत्यस्य विरोधात् । संवृत्यार्थ एवायं परमार्थतः कृतकत्वादेरप्यर्थाभावात् । न हि निरंशे परमार्थतः कृतकत्वम५ नित्यत्वमित्यादिसाध्यसाधनभूतमर्थद्वयं सम्भवतीति चेत्; आस्तां तावदेतत् । तन्नायमपि हेतुरसिर्द्धत्वात् ।
युगपदुपलम्भ एवास्तु हेतुरिति चेत्; न; तस्यापि विपक्षेणाविरोधात् । अविरोधे गवावादौ किन्न तेंदुपलम्भ इति चेत् ? अभेदेऽप्येकाणुमात्रे किन्न स्यात् ? स्वहेतुतस्तथानुत्पत्तेरिति चेत्; न; इतरत्रापि समानत्वात्, गवाश्वादेरपि ततस्तथानुत्पत्तेः । ततो यत्र स्वहेतु१० सामर्थ्यं तत्र भवत्येव भेदेऽपि तदुपलम्भ इति सिद्धं सन्दिग्धव्यतिरेकत्वम् । ततः सूक्तम्सन्दिग्धव्यतिरेकत्वत इति तथा सन्दिग्धान्वयत्वत इति च व्यतिरेकसन्देहे अन्वयसन्देहस्याप्यावश्यकात् ( कत्वात् ) ।
;
यत्पुनर्द्विचन्द्रादिवदिति निदर्शनम् ; तदपि न शोभनम् ; साध्यविकलत्वात् । न हि द्विचन्द्रादेस्तज्ज्ञानादभेदः, साकारवादप्रतिविधानात् । परस्परं तदाकारद्वयस्याभेद इति चेत्, १५ न; तत्रापि यथाप्रतिभासं भेदस्यैव भावात् । यथातत्त्वमभेद एव एकस्यैव चन्द्रमसो द्विरूपतयोपलम्भादिति चेत्; न; अन्यथाख्यातेरपि प्रतिविधानात् । तत इदं कारणदोषवशादाकारदेवावभासमानं यथाप्रतिभासं भिन्नमेवेति सिद्ध साध्यवैकल्यम्, अतश्चानुदाहरणमिति । [ यत् ] पुनरेतत् परमाणुमात्रमेव नीलतज्ज्ञानादिकं तत्र च कल्पित एव साध्यसाधनभेदः परमार्थतो नित्यत्वाद्यनुमानेऽपि तदभावात् इति तदपि न साधीयः; परिकल्पिताद्धेतोस्त स्वतः २० साध्यसिद्धेरसम्भवात्, अन्यथा तत एव भेदस्यापि तादृशंस्य सिद्धिप्रसङ्गात् । तथा हिययोः सहोपलम्भनियमस्तयोर्भेदो यथा सुगतेतरयोः तत्रियमश्च नीलतज्ज्ञानयोरिति । सुगतोपलम्भसमये हि तदन्यस्यानुपलब्धावभाव एव स्यात् सुगतस्यात्यन्तिकत्वात् । "तिष्ठन्त्येव पराधीनाः " [ प्र०वा० १२०१ ] " इत्यादिवचनात् । न च तदन्याभावे " तस्यापि सम्भवः, तस्य जगद्धितैषिणो जगदभावेऽनुपपत्तेः, अन्योपलम्भे च सुगतस्यानुपलब्धौ " तद्वि२५ कलं जगद्भवेत्, संसारिप्रवाहस्याप्यपर्यन्तत्वात् । न चेदं पथ्यं भवताम् अनुमानमुद्राभेदापत्तेः, व्याप्तिपरिज्ञानस्य तदायत्तत्वात् " न च सम्बन्धो व्याप्य सर्वविदा ग्रहीतुं शक्यः " [ प्र० वार्तिकाल • १/२ ] इत्यलङ्कारवचनात् । सर्वविदस्तज्ज्ञाने कथमितरस्यानुमानमिति चेत् ? इदमपि भवानेव प्रष्टव्यो य एवं ब्रूते । तदस्ति तयोस्तन्नियम इति न साधनवैकल्य
"
93
१ तत्प्रतिज्ञा-आ०, ब०, प० । २ पृथगुपलम्भाभावः । ३ - त्वाद् युगपदुपलम्भवदुपलम्भ प० । - स्वाद् युगपदुपलम्भवत् युगपदु-आ०, ब० । ४ भेदेन । ५ युगपदुपलम्भः । ६-मसदिवाव भा-आ०, ब०, प० । ७ नीलपीतज्ञांना-आ०, ब०, प० । ८ साध्यसाधनभेदाभावात् । ९ तात्त्विकस्य १० " अकल्प कल्पा सख्ये यभावनापरिवर्द्धिताः । तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥ " - अभिस० पृ० १३४ । ११ सुगतस्यापि । १२ सुगतशून्यम् । १३ सुगतेतरयोः सहोलम्भनियमः ।