________________
११८७ ]
प्रथमः प्रत्यक्ष प्रस्तावः
३६३
वचनात्प्रतिपत्तिः, न च तत्र वचनस्यागरीयस्त्वं विशिष्टरूपप्रतिपत्त्यर्थतया तत्वोपपत्तेः । अत इदमप्यसङ्गतम् ; 'यश्च' इत्यादि । यच्चेदमन्यत्
"प्रत्यक्षस्य प्रमाणत्वे वचनस्य प्रमाणत्वं (ता) |
वचनस्य प्रमाणत्वे प्रत्यक्षस्येत्य साध्वदः || ” [ प्र० वार्तिकाल ० ३ । ३३१]इति; तत्र युक्तं 'प्रत्यक्षस्य' इत्यादि, सति प्रत्यक्षसंवादे वचनप्रामाण्यस्य लीलागम्यत्वात्; ५ 'वचनस्य' इत्यादिकं तु अयुक्तम् ; तत्संवादनिरपेक्षस्यैव प्रत्यक्षस्य सा ( असा ) धारणाकारे प्रामाण्यात्, तस्य च भवतोऽपि प्रसिद्धत्वात्, अन्यथा वाग्व्यापारवैयर्थ्यापत्तेरिति निवेदनात् । ततः स्थितं विषयविषयिणोरेकस्य अन्यतरस्यापरिज्ञानेऽपि परिज्ञानादसिद्धः सहोपलम्भनियमः, ततश्च न नीलतद्धियोरभेद इति ।
स्यादाकृतम्-भवत्ययं प्रसङ्गो यदि यौगपद्यं सहशब्दस्यार्थः, न चैवम्, तस्यैकार्थत्वात् । १० दृश्यते च तस्य तदर्थत्वम्, यथा सहोदर इति । तदयमर्थ:-सह एकस्य उपलम्भः, तस्य नियम : - 'ज्ञानस्यैव नार्थस्य' इत्यवधारणं तस्मादिति; तन्न; ज्ञानवन्नीलादेरप्युपलम्भात् । तदेव ज्ञानमिति चेत् ; न ; तदन्यस्यैव 'तस्य 'अहम्' इति प्रतिवेदनात् । अहमित्यपि नीलाव प्रतिवेद्यत इति चेत्; न; तस्य पीतादावभावप्रसङ्गात् । नीलवदन्येदव तत्र तदिति '; तत् ? 'पौर्वापर्ये प्रमाणाभावादिति चेत्; न; अन्यत्वस्याप्यपरिज्ञानप्रसङ्गात् । १५ न हि पूर्वापरयोरेकेनाऽग्रहणे 'पूर्वस्मादिदमन्यत्' इति सुपरिज्ञानम् । कुतश्चित्परिज्ञाने वा तदेकत्वपरिज्ञानमपि स्यादविशेषात् । ततो न नीलाद्येव ज्ञानमित्यसिद्ध' एकोपलम्भनियमः । सिद्धस्यापि किं तस्य साध्यम् ? नीलतद्धियोरेकत्वमिति चेत्; न; तद्दर्शनस्यैव " हेतुत्वात् । तदेकत्वव्यवहार इति चेत्; कस्तर्हि " तद्व्यवहारो नाम १ तनिश्चयस्तदभिधानञ्चेति श्वेत् ; न ; निश्चयाभिधानविषयस्यैव हेतुत्वात् नैकोपलम्भनियमो हेतुः ।
२०
पृथगुपलम्भाभाव इति चेत्; कुतस्तत्प्रतिपत्तिः ? प्रत्यक्षादिति चेत्; न; प्रतिबन्धाभावात् । तादात्म्यं प्रतिबन्ध इति चेत्; न; प्रत्यक्षस्य तद्वदभावत्वापत्तेः, हेतोर्वा प्रत्यक्षवत् भावरूपत्वोपनिपातात् । तदुत्पत्तिरिति चेत्; न; अभावस्य सकलशक्तिविकलतया कारणत्वानुपपत्तेः । न चाकारणस्य प्रतिपत्तिः, “नाकारणं विषयः " [ १४ इत्यस्य विरोधात् ।
1
२५
नाप्यनुमानात्तत्परिज्ञानम् ; प्रत्यक्षाभावे तदनवतारात् लिङ्गाभावाच्च । तद्धि लिङ्ग न भावरूपम् ; तस्य प्रत्यक्षवत् तत्राप्रतिबन्धात् । न चाप्रतिबन्धस्य लिङ्गत्वम् ; तादात्म्यादिलिङ्गप्रतिबन्धकल्पनावैफल्यापत्तेः । नाप्यभावरूपम् ; तत्रापि 'कुतस्तस्प्रतिपत्तिः '
2
१ प्रत्यक्षस्येत्य संविदः " - प्र० वार्तिका ल० । २ सहशब्दस्य । · ३. एकार्थत्वम् । ४ नीलाद्यपि । ५ ज्ञानस्य । ६ अहमिति प्रतिवेदनस्य । ७ अहमिति प्रतिवेदनम् । ८ एकस्यैव प्रतिवेदनस्य क्रमशः नीलवत् पीतादौ सम्भवे । "पुनः स ( भदन्तशुभगुप्तः ) एवाह-यदि सहशब्द एकार्थस्तदा हेतुरसिद्धः...”— तत्त्वस०पं० पृ०५६८ | अक० टि० पृ० १५९ | १० एकत्वोपलम्भस्यैव हेतुत्वे असिद्धत्वमिति भावः । ११ व्यवहाआ०, ब०, प० । १२ – स्वात् तत्रैको आ०, ब०, प०। १३ पृथगुपलम्भाभाववत् । १४ द्रष्टव्यम् - पृ०२९८टि०१० ।