________________
३६२ म्यायविनिश्चयविवरणे
[१९८७ वदिति चेत् ; कथमिदं द्विष्टकामित्वं स्वपरयोरेकविषयत्वभयान्न परार्थानुमानमिष्यते, तदेव च पोष्यते इति । ततो दुरतिक्रममेव परविषयस्य परेण परिज्ञानं 'तदर्शनस्य च । दृश्यते हि सामग्रीवशात् परदर्शनस्य प्रतिपत्तिर्न तद्विषयस्य 'पश्यन्नयमास्ते स तु न ज्ञायते यं पश्यति' इति व्यवहारदर्शनात् । कथं पुनदर्शनस्यैव परिज्ञानं न तद्विषयस्येति चेत् ? न ; तत्रैव तत्सामग्र्याः प्रतिबन्धात् । सामप्रीतस्तदपरिज्ञानेऽपि तदनुमितादर्शनात्तत्परिज्ञानं "तस्य दृश्यशून्यस्यासम्भवात् , भ्रान्तस्यापि केशोण्डुकादौ सत्येव दृश्ये भावात् केवलं स तत्र मिथ्या, सत्यज्ञाने तु तथ्य इति विभाग इति चेत् ; भवतु नामैवम् , तथापि कस्तव परितोष: ? तथापि सहोपलम्भनियमस्याप्रसिद्धः। न हि सामग्रीतो दर्शनस्यैव ततोऽपि विषयस्यैव प्रतिपत्तौ तन्नि
यमः । ततो दुरालाप एवायम् अन्येन वेदनं चैतत् इत्यादिः । असाधारणत्वे विषयस्य १० वचमप्रबन्धस्याप्यस्य वैयर्थ्यांपत्तेः, प्रकाशितस्यापि परेणापरिज्ञानात् , अपरिज्ञातस्य च पारा
ानुपपत्तेः । 'लिङ्गवत्तत्समानपरिज्ञानाददोष इति चेत् ; न ; तस्यातद्वचनत्वेन सत्यपि तदोषे तन्निग्रहाभावप्रसङ्गात् । तद्वचनमेवेति चेत् ; न ; "तदपरिज्ञाने तत्प्रभवत्वापरिज्ञानात् । तत्परिज्ञाने तु कथमसाधारणत्वं विषयस्य स्वपरप्रतिपत्तिविषयस्य "तत्त्वानुपपत्तेः । तदयं साधारणतां वचनस्य प्रतिपद्यमानो नीलादेरेव किन्न प्रतिपद्येत ?
यत्पुनरत्र चोद्यम्-"यदि च साधारणत्वं प्रतिभाति त्वया दृष्टं न वेति किमिति प्रश्नः १ प्रमाणान्तरसंवादार्थः । यदि प्रत्यक्षान्न प्रत्येति वचनादपि नैव प्रत्येष्यति । "तदपि स्वप्रतिभासमेव सूचयति त्वं प्रति ( त्वत्प्रति ) भासितं मम प्रतिभाति इति । "तेनापि पृष्ट्वैव ज्ञातव्यं तत इतरेतराश्रयदोषः । यच्च प्रत्यक्षेण न प्रतिपन्नं तत्कथं
वचनात्प्रत्येतव्यम् ? न हि प्रत्यक्षेऽर्थे परोपदेशो गरीयान्" [प्र० वार्तिकाल० ३।३३१] २० इति ; तदपि व्याकुलचित्ततामलङ्कारकर्तु रावेदयति ; वचनसाधारणत्वेऽपि प्रसङ्गात् । तस्यापि
प्रत्यक्षतः प्रतिभासे किमित्ययं प्रश्नः त्वयापि "श्रुतं न वेति ? कदाचिददर्शनस्यापि भावात् । तददर्शने कथं तत्साधारणत्वं दर्शनापेक्षत्वात्तस्येति चेत् ; कथं वचनस्याप्यश्रवणे "तत्त्वं तस्यापि श्रवणापेक्षत्वात् । श्रवणयोग्यतयेति चेत् ; न; परत्रापि दर्शनयोग्यतया भवेत् । दर्शनाभावे सैव
कथं कार्यानुमेयत्वात्तस्या" इति चेत् ; न; कदाचिद्दर्शनस्यापि भावात् , इत्थमेव वचनेऽपि तद्व्यव. र स्थापनोपपत्तेः । ततो न प्रत्यक्षप्रतिपन्न एव साधारणाकारे प्रमाणान्तरसंवादार्थः" प्रश्नः, किन्तु
तस्यैव परदर्शनविशिष्टस्य प्रतिपत्तये । ततो न युक्तमुक्तम्-'यदि प्रत्यक्षात्' इत्यादि तथा 'तेनापि' इत्याद्यपि। परस्परप्रश्नमात्रात्तत्प्रतिपत्तेरनभ्युपगमात्। न च प्रत्यक्षादप्रतिपन्नस्यैव
परदर्शनस्य । २ परदर्शन एव । ३ सामध्यनुमितात् । ४ दर्शनविषयपरिज्ञानम् । ५दर्शनस्य । दर्शनस्य । ७ विषयः। सहोपळम्भनियमः। ९ लिङ्गवरामानेन परि-आ.,ब०, प०।१० वचनस्य विषयप्रतिपादकरवाभावेन । " विषयापरिज्ञाने । १२ असाधारणत्वानुपपत्तोः । १३ वचनमपि । १४ तथैव पृमा०, ब०, प०।१५ श्रुतं तदेवेति भा०, ब०, ५०।१६ साधारणत्वस्य । १० तत्त्वस्यापि आ०, ब०, प०। साधारणत्वम् । १८ योग्यतायाः । १९-रसंभवादथार्थः आ०, ब०, प.।