________________
११८७ ]
प्रथमः प्रत्यक्षप्रस्ताव यथा च रोमहर्षादिकार्यदृष्टेस्तदेकता। तथा सुखादेरेकत्वं तत एव प्रसिद्ध्यति ॥ अन्यदेव सुखं तस्य ग्राह्यमप्यन्यदस्तु तत् । देशभेदात्सुखादीनामन्यत्वमिति चैन्मतिः॥ एकत्वे देशभेदोऽपि कथं सिद्ध्यति तत्त्वतः १ । तत एव सुखादन्ये रोमहर्षादयो न किम् ? ॥ अन्यत्वाद्रोमहर्षादेः सुखस्य यदि भिन्नता ।
अन्यत्वे ग्राह्यमप्यन्यदिति कसान गृह्यते ? ॥” [प्र०वार्तिकाल० ३।३२१]
इति चेत् ; असारमेतत् ; एवं परार्थानुमानस्य व्यापत्तेः। तत्खलु स्वदृष्टार्थप्रकाशनम् । स्वदृष्टस्य वादिप्रतिपन्नस्य त्रिरूपलिङ्गस्य परेणापरिज्ञाने कथं तं प्रति तत्प्रकाशन- १० मर्थवत् , जात्यन्धं प्रति रूपप्रकाशनवत् ? तदयमन्यतरासिद्धः सहोपलम्भनियमः प्रकाशितस्यापि परेणापरिज्ञानात् । तत्समानस्य परिज्ञानाददोष इति चेत् ; न ; स्वतस्तत्परिज्ञाने तत्प्रकाशनवैफल्यात् । ततस्तत्परिज्ञानमिति चेत् ; न ; अपरिज्ञातस्य प्रकाशनासम्भवात् । परिज्ञानेऽपि तदवस्थं तद्व फल्यम् । वादिपरिज्ञातस्येति चेत् ; न ; दत्तोत्तरत्वात् , तत्रापि परेणापरिज्ञानात् । पुनरपि तत्समानस्य तेन परिज्ञानमिति चेत् ; न ; 'स्वतः' इत्यादेरनु. १५ वृत्तेरव्यवस्थापत्तेश्च । न च तत्रैव धर्मिण्यपरस्तन्नियमोऽस्ति तदप्रतिवेदनात् , अप्रतिवेदितस्य च ज्ञानस्वभावत्वानुपपत्तेः । धय॑न्तरे विद्यत एवेति चेत् ; तस्याप्यप्रतिपन्नस्य कथं प्रकाशनम् ? स्वयं दृष्टार्थग्रहणविरोधात् । प्रतिपन्नस्येति चेत् ; न ; दत्तोत्तरत्वात् । तत्रापि तदपरस्य तत्समानस्य तेन परिज्ञानमिति चेत् ; न ; 'स्वतः' इत्यादेर्दोषात् । एकत्र च धर्मिणि तन्नियमभेदाभावात् । पुनरपि धर्म्यन्तरे तद्भेदकल्पनायां स एव प्रसङ्गः तस्यापीत्यादिर्रव्यवस्था च । २० तद्धर्मिगतस्तनियमो व्यवहारादेक एव ततस्तस्यैकत्र प्रकाशनमेव अन्यत्रापि प्रकाशनमिति चेत् ; न ; एकत्र परिज्ञानस्यैवान्यत्रापि परिज्ञानत्वप्रसङ्गात् । ततः किम् ? अन्यतोऽपि किम् ? साध्यप्रतिपत्तिरिति चेत् ? ततोऽप्येकार्थपरिज्ञानमेव । ततस्तत्परिज्ञानमपरिज्ञानमेवेति चेत् ; न ; ततः साध्यप्रतिपत्तरपि तदप्रतिपत्तित्वापत्तेः। भवत्वेवं परस्यैव तत्प्रतिपत्तिमतोऽभावादिति चेत् ; न ; तदभावेऽस्यापि वचनस्य वैयर्थ्यात् । इदमपि मा भूदिति चेत ; न ; २५ अत्राप्येवं प्रसङ्गात् । पुनरेवमभिधाने अनवादोषात् । ततो दूरप्रसारितस्यापि शब्दस्य परार्थत्वनियमात् कथं तदभावः ? सतोऽपि परस्य प्रत्यक्षादेव तत्प्रतिपत्तिः न प्रकाशितालिङ्गादिति चेत् ; कुत "एतत् ? परस्य प्रत्यक्षं नीलतज्ज्ञानाभेदविषयं प्रत्यक्षत्वात् अस्मत्प्रत्यक्ष
१ विषयस्य एकता । २ अभिन्न देशात् । ३ "तत्र परार्थानुमान स्वदृष्टार्थप्रकाशनमित्याचाीयलक्षणम्"प्र.वा. म.४।१। ४ त्रिरूपलिङ्गप्रकाशनम् । ५ अपरस्य सहोपलम्भनियमस्यानुपलम्भात् । ६ -दिरनवस्था च मा०, ब०,५०। -प्रतिपत्सितो न भा-आ०, ब०,५०। ८-स्थानदो-मा०,०५०। ९ नीलतज्ज्ञा. नाभेदप्रतिपत्तिः। १० एव तत् आ०, ब०,०।