________________
५
१०
न्यायविनिश्चयविवरणे
[२२८७
एतेन यत्परस्य मतम् - " न नीलतज्ज्ञानयोरेकत्वं तन्नियमेन साध्यते अपितु उभयोरपि चेतनत्वेनाविशिष्टत्वम्” [ ] इति ; तदपि प्रत्याख्यातम् । तथा हि
२५
३६०
यथैव तनयाऽपि मनसोरविकल्पता । एकस्यैव विकल्पत्वं परस्यैव न तूभयोः ॥ ८९६ ॥ नीलतज्ज्ञानयोरेवं तज्ज्ञानं चेन्न नीलकम् ।
भिन्नं तु तज्ज्ञानमिति भेदो दुरुत्तरः ॥ ८९७ ॥ अचेतनत्वात्संवित्तेनलं चेतनमेव चेत् । अन्यतस्तर्हि तच्चित्त्वं साध्यं तन्नियमो वृथा ॥८९८ ॥ यथा चावेतनस्यापि वित्तिः सम्भवति स्फुटम् । तथा निवेदितं पूर्वं तत्किमत्र प्रयस्यते ॥ ८९९ ॥
किञ्चेदं "नीलं तज्ज्ञानञ्च ययोस्तन्निर्यमादभेदसाधनम् ? निरंशपरमाणुरूपमिति चेत् ; न ; वक्ष्यमाणोत्तरत्वात् । यदेव प्रसिद्धमिति चेत्; न; तस्य नानावयवसाधारणस्यावयविसिद्धिभयेनानभ्युपगमात् । अभ्युपगमेऽपि न सिद्धो हेतु ; नर्त्तकीं पश्यतस्तद्विषयस्य परेण परिज्ञानेऽपि तज्ज्ञानस्यापरिज्ञानात् । तद्विषयस्यापि परेण कथं परिज्ञानमवगतम् ? १५ रोमहर्षादेस्तत्कार्यस्य दर्शनादिति चेत्; न; तस्य " तदेकविषयकार्यत्वस्यानुपायत्वेनासिद्धेः, अनुमानाच्च तत्समानस्यैव परेण परिज्ञानं शक्यपरिकल्पनं न तस्यैव तस्य" सामान्यविषयत्वात् । अपि च, रोमहर्षादिकार्यदर्शनात् स्वपरयोरेकविषयत्ववदेकसुखादित्वमपि भवेत्, भिन्नसुखादित्वे भिन्नविषयत्वस्याप्यनिवारणात्। देशभेदात् कथं सुखादेरेकत्वमिति चेत् ? न; एक वे तद्देशभेदस्यैवासम्भवात् । ततः कथं भिन्नदेशो रोमहर्षादिरिति चेत् ? न ; अविरोधात् । २० अन्यथा एकस्माद्विपयादपि तदभावप्रसङ्गात् । रोमहर्षादिभेदाच्च सुखादेर्भेदे ग्राह्यस्यापि सं किन्न स्यादविशेषात् ? ततो यथा भिन्नादेव सुखादेः स्वपरयोः रोमहर्षादिः तथा ग्राह्यादपीति न तदर्शनात् स्वविषयस्य परवेद्यत्वं शक्यविधानं यतो हेतोरसिद्धत्वमिति । तदुक्तम्
1
S
१८
"अन्येन वेदनं चैतत्कुतोऽवसितमात्मना । तत्कार्यदर्शनान्नैतत्कार्यत्वस्याप्रसिद्धितः ॥ अनुमानस्य सामान्यविषयत्वस्य वर्णनात् । स एव दृश्यतेऽन्येनेत्येतदेव न सिद्ध्यति ॥
१ सहोपलम्भनियमेन । २ सहोपलम्भनियमेऽपि । ३ परस्य न तूम-आ०, ब०, प० । ४ नीले चेतनत्वम् । ५ सहोपलम्भनियमः । ६ प्रसज्यते आ०, ब०, प० । ७ नीलञ्च ज्ञानञ्च आ०, ब०, प० । ८ सहोपलम्भनियमात् । ९ व्यवहारप्रसिद्धम् । १० नर्तकीक्षणस्य । ११ रोमहर्षादेः । १२ अनुमानस्य । १३ प्रतिपत्रोः । १४ स्व-परप्रतिपत्रोर्भिन्नदेशवर्तित्वात् । १५ एकत्रैतद्देश- आ०, ब०, प० । १६ अभिन्नदेशात् सुखादेः । १७ भिन्नदेशीय रोमहर्षाद्यभाव । १८ भेदः । १९ - त्वमुक्तमिति आ०, ब०, प० ।