________________
प्रथमः प्रत्यक्षप्रस्ताव:
२१८७]
३५९ तवृत्तिः केवलस्यैव निर्विकल्पम्य प्रतिसंहारे विकल्पस्य चेन्द्रियव्यापारोपरमें दर्शनादिति चेत्; न; तर्हि नीलतज्ज्ञानयोरपि तन्नियमः ३ वर्लस्यैव तज्ज्ञानस्य विषयान्तरे नीलस्यापि ज्ञानान्तरे दर्शनात् । तदन्यदेव ज्ञानं नीलं च, पूर्वापरैकत्वे प्रमाणाभावस्य निवेदनात् । ततो यन्नीलसहितं ज्ञानं ज्ञानसहितश्च नीलं तदन्यदेवेत्यस्त्येव तत्र तन्नियम इति चेत् ; कथमेवं विकल्पेतरयोरप्यसहभाविनोरन्यत्वात सहप्रतिपन्नयोस्तन्नियमों न भवेत् ?
तथा च वस्तुवृत्त्यैव तर्दभेदव्यवस्थितेः।। कथमुक्तमिदम् “मूढः तयोरैक्यं व्यवस्यति" ॥ [प्र० वा०२।१३३] दर्शनाभेदतः स्पाष्ट्यं विकल्पे तत्त्वतो भवेत् । "न"विकल्पानुविद्धस्य' इत्यादि "तज्जडकल्पितम् ।।८९३॥ "तद्वद्यमपि सामान्य वस्तु सत्स्यात्स्वलक्ष्मवत् ।
"तदवस्त्वभिधेयत्वात्” इति तन्मुग्धभाषितम् ॥८९४॥ विकल्पधर्मयोरेवमभिलाप्येतरात्मनोः।
सहोपलम्भादेकत्वे विकल्पो नावकल्पते ॥८९५॥
तथा हि-न "तस्याभिलाप्यैकस्वभावस्य स्वतो वेदनम्; "तस्यानभिलाप्यस्य तत्रा सम्भवात्, अभिलाप्यस्यानभिलाप्यरूपानुपपत्तेः । अभिलाप्यमेव "तदपीति चेत् ; न तर्हि १५ प्रत्यक्षम्, "तस्यानभिलाप्यस्यैवाभ्यनुज्ञानात् । तृतीयं तु प्रमाणं भवेत् अलिङ्गजत्वेनानुमानेऽप्यनन्तर्भावात् । ततश्च 'प्रमेयद्वैविध्यात्' इति व्यभिचारी हेतुर्भवेत् , प्रमाणद्वैविध्यातिक्रमेणापि भावात् । “नाप्ययमनभिलाप्यस्वभाव एव ; ""अभिलापसंसर्ग" [ न्यायबि० पृ० १३] इत्यादेनिर्विषयत्वापत्तेः। अभिलान्याकारविषयं खल्वेतत् कथं तदभावे निर्विषयं न भवेत् ? "आरोपिततदाकारविषयत्वान्न दोष इति चेत् ; न ; आरोपकस्याभावात् । २० विकल्प "एव हि आरोपकारी, तस्य चोक्तन्यायादसम्भवे कुतः क्वचित्कस्यचिदारोपणमिति विकल्पविकलं सकलं जगद्भवेदिति कथमनुमानं यतः सहोपलम्भनियमादित्यसाधनाङ्गतया निग्रहाधिकरणं न भवेत् ? यदि पुनर्विकल्पाविकल्पयोर्विकल्पधर्मयोः अभिलाप्येतराकारयोर्वा सत्यपि सहोपलम्भनियमे नाभेदः ; कथं तदा तस्य गमकत्वं व्यभिचारात् ? तदेवाह-विरुद्धस्वात्' इति । विरुद्धत्वं विपक्षस्वीकृतत्वं तस्मादिति ।
१ युगपबृत्तिः। २ "सकलविकल्पसंहारे सुगतावस्थायामित्यर्थः"-ता. टि.। "केवलस्येति अत्रापि सम्बन्धनीयम्"-सा.टि."पिहिते कारागारे"-ता०टि०।५सहोपलम्मनियमः। केवलस्य वि-भा.., प०। ७ सहोपलम्भनियमः। ८ तदभेदे व्यवस्थिते आ०, ब०, प० । निर्विकल्पसविकल्पयोरभेदव्यवस्थितेः। ९ प्र०वा. १८३ । १० "सविकल्पकस्य विकल्पज्ञानस्येत्यर्थः"-ता-टि०।११ तजडजल्पि-मा०,०प०। १२ विकल्पज्ञानवेद्यम् । १३ तत् सामान्यमवस्तु । प्र०वा०२।११।१४ विकल्पस्य । १५स्वसंवेदनस्य । १५-रूपखानुपपत्तेः-आ०,०,०। १७ स्वतो वेइनमपि । १८ प्रत्यक्षस्य । १९ "प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यम्"-ता. टि० । २० विकल्पः । २१ "अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पनाः"-न्यायवि० । २२ कल्पित-अभिलाप्याकार । २३ एव व्यवहारोप-मा०,०,०।