SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ म्यायविनिश्चयविवरणे [१८७ 'तथा हि 'तादात्म्ये योगपद्यं न सहार्थो नीलाद्वियोः । योगपधं यतो लोके भेदाधारं प्रतीतिमत् ॥८८१॥ योगपद्ये च सत्यस्मिन् बालिकाकुचयोरिव ।। तयोः परस्परैकत्वं कविभिः कल्प्यतां कथम् ? ॥८८२॥ तद्भेदनियतो हेतुनिषेधत्येव ते मतम् । तत्कथं विषमश्नासि सञ्जीवनधिया स्थितः ॥८८३॥ भेदे गवाश्ववन्नो चेत् सहनियमस्तयोः । अभेदेऽपि कथं चन्द्रतवैरूप्यविवेकवत् ॥८८४॥ 'चन्द्रदृष्ट्य व दृश्यश्चेत्तद्विवेकोऽपि ते मतः । तद्विवेकानुमानस्य कैमर्थ्यक्येन कल्पनम् ।। ८८५॥ तस्यैव निश्चयार्थ चेत्तत्कल्पनमुदीर्यते । चन्द्रे ऽपि निश्चयायैवं मानमन्यत्प्रकल्प्यताम् ।।८८६॥ प्रत्यक्षादेव निश्चयश्चन्द्रश्चेत्तदभेदतः। तद्विवेकोऽपि तत्प्राप्तमनुमानं पुनर्वृथा ।। ८८७।। अभेदेऽपि न चेचन्द्रनिश्चये तद्विनिश्चयः । तदृष्टावपि तदृष्टिनेति सिद्धं निदर्शनम् ।।८८८॥ खसामग्र्यास्तथोत्पत्तेः सहदृनियमो यदि । नीलतज्ज्ञानयोरेव नाभेदेऽपि त्वदुक्तयोः ॥८८९।। भेदेऽप्येष नयः कस्माद् भवता भद्र नेष्यते । सहरनियमस्तत्र यत्तयोर्न गवाश्ववत् ।।८९०॥ व्यवसायोऽपि लोकस्य नीलतज्ज्ञानयोरयम् । भेद एवास्ति भेदेत्यनज (एवास्ति नाभेदे त्यज) निर्बन्धवैशसम् ।।८९१।। ततः स्थितं सहोपलम्भनियमस्य विरुद्धत्वान्न ततो नीलतज्ज्ञानयोरभेद इति । अपि च, एवं विकल्पाविकल्पयोरपि मनसोरेकत्वप्रसङ्गः सहोपलम्भनियमात । अस्ति हि तत्रापि तनियमः "मनसो युगपद्वत्तेः" [प्र० वा० २।१३३] इति वचनात् । अनियतैव तंत्र २५ तुलना-"तत्र भदन्तशुभगुप्तस्त्वाह-विरुद्धोऽयं हेतुः, यस्मात्-सहशब्दश्च लोके स्यान्नैवान्येन विना कचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥"-तरवसं०६० पृ. ५६७ । अक.टि. पृ० १४३५०२७ । २'नीलतद्धियोः तादात्म्ये सहार्थः यौगपद्यन' इत्यन्वयः। ३ तत् तस्मात् । ४ नीतद्धियोः । ५ चन्द्र दृष्टव मा०,०,५०, ६ "प्रत्यक्षादेव निश्चय इति सम्बन्धनीयम्'-ता.टि .सिदिनिंद-मा०, १०,५०1८ निर्विकल्पकसविकल्पकयोः ।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy