________________
१५८७ ]
प्रथमः प्रत्यक्षप्रस्ताव:
३५७
अगमकत्वात् , अनपेक्षायां तु न नीलधिय एव प्रतिपत्तिः, अन्यधियोऽपि ततः सम्भवात् । तथा च न सहोपलम्भनियमः अन्यधीव्यपेक्षया नीलस्य तदप्रतिवेदनादिति चेत् ; न; प्रकरणा. दिवशात् तच्छब्दस्य नीलार्थनिर्णये बहिरपेक्षाविरहाद्गमकत्वोपपत्तेः वृत्तिविधानस्याविरोधात् । तयोरभेदः तादात्म्यं भेदाभावो वा । कुत एतत् ? सहोपलम्भनियमात् । अस्यार्थः पश्चाद्विवरिष्यते । द्विचन्द्रादिवदिति निदर्शनमत्र द्रष्टव्यम् , शास्त्रे परेणाभिधानात् । ५
तदिदं 'निषेधन्नाह-'न' इति । कुत एतदिति चेत् ? पक्षस्य प्रत्यक्षबाधनात् । प्रत्यक्षं हि नीलं तज्ज्ञानात् नीलाञ्च तज्ज्ञानम् अर्थान्तरतया जडेतररूपतया भिन्नजातीयत्वेन सकलप्रेक्षावत्साक्षिकतया प्रतिपद्यमानं तदभेदपक्षं प्रतिक्षिपत्येव, पावकानुष्णपक्षमिव दहनोष्णप्रत्यक्षम् । तन्न तस्य हेतुबलात्परिपालनम् ।
“न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः।" [ ] इति न्यायात् । १० तद्भदप्रत्यक्षस्य भ्रान्तत्वान्न तेन तस्य प्रतिक्षेपः चन्द्रार्कादिस्थिरप्रत्यक्षेणेव तद्गतिपक्षस्येति चेत् ; न ; बाधकाभावात् । अन्यतस्तद्बाधने तत एव तदभेदपरिज्ञानाब्यर्थस्तन्नियमः स्यात् । तन्नियमादेव तद्वाधनं देशान्तरप्राप्तेरिव स्थिरप्रत्यक्षस्येति चेत् ; भवेदेवं यदि तत्प्राप्तेरिव "तन्नियमस्याप्यविनाभावनिश्चयः सुलभः स्यात् । न चैवम् , तदलाभस्य वक्ष्यमाणत्वात् । ततो न नीलतद्धियोरभेदः, तत्पक्षस्य प्रत्यक्षेण बाधनात् ।
कथमिदं कारिकायामनुक्तमभिधीयत इति चेत् ? न ; सामर्थ्यप्रापितस्याभिधाने दोषा. भावात् । परेणैव हि नीलतद्धियोरिति भेदं निर्दिशता, तत्प्रत्यक्षमुपस्थापितं तन्निर्देशस्य "तन्मूलत्वात् । "तच्चोपस्थाप्यमानमभेदप्रतिक्षेपकमेव "तत्प्रत्यनीकविषयत्वादिति न किश्चिद. सामञ्जस्यम् , अतश्च न तयोरभेदः । इत्याह
विरुद्धासिद्धसन्दिग्धव्यतिरेकान्वयत्वतः ॥८७॥ इति । २०
व्यतिरेकश्चान्वयश्च व्यतिरेकान्वयौ । अन्वयशब्दस्य अजाद्यदन्ततया" पूर्वनिपातेन भवितव्यं तत्कथमयं निर्देश इति चेत् ? न ; धर्मार्थादिषु दर्शनात व्यतिरेकशब्दस्यापि पूर्वनिपातोपपत्त । सन्दिग्धौ संशयिती व्यतिरेकान्वयौ” यस्य सन्दिग्धव्यतिरेकान्वयः। पुनर्विरुद्धादीनां द्वन्द्वं कृत्वा भावप्रत्ययः, तस्य प्रत्येकमभिसम्बन्धश्च कर्त्तव्य इति । इदमुच्यतेन नीलतद्धियोरभेदस्तादात्म्यं सहोपलम्भनियमात् । कुतः ? तस्य विपक्ष एवं भावेन विरुद्धत्वात्। २५
१ सहोपलम्भनियमाप्रतिवेदनात् । २ "वक्ष्यमाणप्रकारेणोभयोरपि चेतनत्वेनाविशिष्टत्वम्"-ता०टि.। ३ बौद्धेन । “भेदश्च भ्रान्तविज्ञानैदृश्येतेन्दाविवाद्वये।"-प्र.वा. २।३८९। ४ निषेधयन्ना-बा०, ब०,५०। ५ पक्षस्य । ६ देशान्तरप्राप्तैरिव । ७ सहोपलम्भनियमस्यापि। ८ षष्ठीद्विवचनप्रयोगेण। ९ तन्निदर्शनस्य मा०, ब०, ५०। षष्ठीविभवस्या भेदनिर्देशस्य । १. भेदप्रत्यक्षमलत्वात् । १५भेदप्रत्यक्षम् । १२ अभेद । १३ "लघुष्यजायदरूपाजय॑मेकम् (शा. २।१।११९) इतिसूत्रोक्तप्रकारेण"-ता.टि.१४-यौ च यस्य मा.... प०।१५ "भेद एव"-ता.टि.।