________________
३५६ न्यायविनिश्चयविवरणे
[११८७ आधिपत्यसहिताब्याहारादित एव तद्व्याहारादेरुत्पन्नत्वात् ततस्तस्यापि परम्परया गमकत्वान्न व्यभिचार इति परस्य भावः । चेत्शब्दस्तमेव द्योतयति ।
तत्रोत्तरम्-'असत्' इति । असत् अप्रशस्तम् अनाधिपत्येत्यादि । हेतुमाह
'अर्थेष्वपि प्रसङ्गश्च' [इत्यहेतुमपरे विदुः] ॥८६॥ इति ।
च शब्दो यस्मादर्थे । यस्मात् अर्थेष्वपि अर्थप्रतिभासेष्वपि विषयशब्देन विषयिप्रतिवेदनात् , न केवलं व्याहारादिषु इत्यपिशब्दः । प्रसङ्गः पारम्पर्येणार्थसाहित्यस्य । तया चार्थप्रतिभासानामपि विप्लुताक्षभाविनाम् अर्थप्रत्यायनोपपत्तेर्न व्यभिचार इति शास्त्रकारस्याभिप्रायः । ततश्च यदुक्तम् -'ग्राह्यप्रतिभासः परमार्थसद्विषयो न भवति तत्प्रतिभास
त्वात् विप्लुताक्षतत्प्रतिभासवत्' [ ] इति ; तत्प्रतिविहितम् ; निदर्शनस्य १. साध्यसैकल्यात् । तदेवाह-इत्यहेतुपपरे विदुः' इति । इति एवम् अनन्तरहेतुम् अहेतुम् अगमकम् अपरे अर्थवादिनो विदुर्विजानन्ति ।
त इमे 'इन्द्र जाल' इत्यादयो 'विप्लुताक्ष' इत्यादेरेव व्याख्यानश्लोकाः ।
कुतः पुनः सतोऽपि ग्राह्याकारस्य बहिरर्थत्वम् ? कुतश्च न स्यात् ? अर्थज्ञानादव्यतिरेकात् , तस्याप्यनुमानादवगमात् । तच्चेदम्-'यत्र 'सहोपलम्भनियमः तत्र भेदः यथा चन्द्रद्वये' १५ सहोपलम्भनियमश्च नीलतज्ज्ञानयोः, इति । 'नीलस्यैव केवलस्यानुभवो न तज्ज्ञानस्य तस्य
'परोक्षत्वात् , तत्कथं तत्र तन्नियम इति चेत् ; न ; अननुभवविषयात्ततः सन्तानान्तरज्ञाना. दिवाऽर्थपरिच्छेदानुपपत्तेः । ज्ञानान्तरानुभूतात्तु ततः तत्परिच्छित्तौ अनवस्थानस्याभिधानात् । तन्नासिद्धो हेतुः। नापि रूपालोकाभ्यां व्यभिचारी ; तत्र तदभावात्-निरालोकस्यापि रूप.
स्याञ्जनादिसंस्कृतलोचनेनोपलम्भात् , नीरूपस्याप्यालोकस्य गगनतले विलोकनात् । तस्मान्न २०. तन्नियमो भेदे सति गवाश्ववदुपपत्तिमान् । ततो भवत्येव नीलतज्ज्ञानयोस्तस्मादभेदप्रतिपत्तिरिति चेत् ; अत्राह
सहोपलम्भनियमान्नाभेदो नीलतद्धियोः । इति । तस्य धीस्तद्धीः, नीलं च तद्धीश्च नीलतद्धियो । तस्येत्यत्र नीलस्येत्यपेक्षायामप्रवृत्तिः
१ "सकृत्संवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिद्ध्यति ॥ विषयस्य हि नीलादेधिया सह सकृदेव संवेदनम् । धिया सह न पृथक् । ततः संवेदनादपरो विषय इति थम् ?"-प्र०वार्तिकाल. पृ. ९१ । “यद् यस्मादपृथक् संवेदनमेव तत्तस्मादभिन्नं यथा नीलधीः स्वस्वभावात् । यथा वा तैमिरिकज्ञानप्रतिभासी द्वितीय उडुपः-चन्द्रमाः । नीलधीवेदनञ्चेदम् इति पक्षधर्मोपसंहारः। धर्म्यत्र नीलाकारतद्धियो, तयो. रभिन्नत्वं साध्यधर्मः, यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवाचार्यांये प्रयोगे हेत्वर्थोऽभिप्रेतः "-तत्त्वसं. पं० पृ. ५६७।२ मीमांसकः"-ता०टि । ३ नीलज्ञानस्य । “उक्तञ्च परोक्षं जैमिनेनिमिति, ज्ञाते त्वर्थे. ऽनुमानादवगच्छति वुद्धिमिति च।"-ता. टि०। ५ परोक्षज्ञानात् । । "योगाभ्युपगतात्"-ता. टि.। ७ सहोपलम्भनियमाभावात् । ८ सहोपलम्भनियमात् । ९ "स.पेक्षमसमर्थ भवतीति" (पा. महा. २११११) न्यायात् समासाभावः।"-ता.टि.।