________________
१८५]
प्रथमः प्रत्यक्षप्रस्तावः
शक्यनिरूपणमेव तदपेक्षमपि तल्लक्षणमभ्युपगन्तव्यम् । तदाह-'अन्य' इत्यादि । अन्ये च ते कणादादयो वेदिनश्च विश्वस्य तेषाम् 'अविरोधात् अविरोधप्रसङ्गात् । किमचिन्त्या ? शक्यचिन्तैव योगिनां बुद्धानां गतिर्बुद्धिरित्थंविषयवतीति । तच्च तदपेक्षया तल्लक्षणं निरूप्यमाणं न योग्यताया अपरम् अतस्तदेवारमदादिज्ञानापेक्षयापि भवतीति व्यर्थं तदुत्पत्त्यादिकल्पनम् । अतदुत्पन्नादिना तत्प्रकाशनेऽतिप्रसङ्ग इति चेत् ; न; ५ योग्यतानियमेन प्रकाशनियमस्याभिहितत्वात् । ततः सूक्तम्-'अविप्रकृष्ट' इत्यादि ।
योगिन एव मा भूवन न काचित्क्षतिः संवृतिमात्रेण तदभ्युपगमादिति चेत् ; अत्राह
आयातमन्यथाद्वैतम् [अपि चेत्थमयुक्तिमत् ।] इति ।
अन्यथा अन्येन 'ज्ञानमपि ज्ञानान्तरस्य न हेतुः,नापि योगिनो विद्यन्ते' इति प्रकारेण आयातम् उपनतम् अद्वैतं निरंशसंवेदनैकव्यक्तितत्त्वम् । तदपि सौगतस्याभिमतमेवेति चेत्, १० आह-'अपि चेत्थमयुक्तिमत्' इति । 'इत्थम्' इत्यनन्तरम् 'अपिच' इति द्रष्टव्यम् । इत्थमनेनाद्वैतप्रकारेण। अपि च न केवलम् अन्यथैव अयुक्तिमत् तत्त्वं संविदद्वैतस्य ब्रह्माद्वैतव. दनुपपत्तिमत्तया प्रतिपादितत्वात् । ततः क्वचित् प्रज्ञास्थैर्यमन्विच्छता न बहिरर्थः प्रतिक्षेप्तव्यः तत्प्रतिक्षेपे तदनुपपत्तेः।
___ कथं पुनर्बहिरर्थस्य वस्तुसतः परिज्ञानम् ? न प्रतिभासात् ; तस्यासत्यपि तस्मिन् १५ विप्लवावस्थायां भावात् । तद्विशेषादित्यपि न युक्तम् ; अबाधितत्वादेः तद्विशेषस्य निराकरणादिति चेत् ; न ; तद्वत्सन्तानान्तरस्यापरिज्ञानापत्तेः । प्रत्यक्षतस्तदप्रतिवेदनात् , तल्लिअस्य च व्याहारादेरसत्यपि तस्मिन् विप्लवदशायां भावात् । तदाह
व्याहारादिविनि सो विप्लुताक्षेऽपि भावतः ॥४५॥ इति ।
व्याहारो वाग्व्यापारः आदिर्यस्य गमनादेः कायपरिस्पन्दस्य तस्य विनिर्भासनं २० व्याहारादिविनिर्भासः सन्तानान्तरं किन्न दीपयेत् इति नकारवर्जमधिकृत्य सम्बन्धनीयम् । अत्र हेतुमाह-विप्लुताक्षेऽपि स्वापाद्युपहतेन्द्रियेऽपि प्रतिपत्तरि तद्विनि सस्य भावतो विद्यमानत्वात् , न व्यभिचारिणो गमकत्वमिति भावः । परः परिहारमाह
अनाधिपत्यशून्यं तत्पारम्पर्येण चेत् [असत् । इति ।
अधिपतिः निमित्तं सन्तानान्तरं व्याहारादेः स एवाधिपत्यं तेन शून्यं आधिपत्य- २५ शून्यम् , न आधिपत्यशून्यम् अनाधिपत्यशुन्यम् आधिपत्य॑सहितमिति यावत् । किं तदिति चेत् ? आह-तत् व्याहारादिकम् । कथं तत्तादृशम् ? इत्याह-पारम्पर्येण परम्परतया विप्लुताक्षभावि व्याहारादिकं यद्यपि साक्षादाधिपत्यसहितं न भवति, परम्परया तु भवत्येव ।
भविरोधात् प्रस-ता.। २ प्रज्ञास्थैर्यानुपपत्तेः। ३ अर्थे । ४ प्रतिभासविशेषात् । ५-तस्तवेदमा०,०,५०।६ सन्तानान्तरे । ७ नाकार-आ०,१०,५०।८-त्य सन्निहित-आ., ०, प.।