________________
३५४ न्यायविनिश्चयविवरणे
[१८५ तदेवाह-'अविप्रकृष्ट' इत्यादिना । सन्तानः ज्ञानात्मा सन्तानान्तरम् अर्थाख्यं किं न दीपयेत् किं न प्रकाशयेत् ? कथम् ? अञ्जसा । कीदृशः ? अनपेक्षितसाधनः। अनपेक्षितम् अनाकाक्षितं साधनं विषयकृतमुपकारलक्षणं येन स तथोक्तः ।
तेदनपेक्षस्य तत्प्रदीपनेऽतिप्रसङ्गं परिहरति- अविप्रकृष्टः प्रत्यासन्नो देश आदिर्यस्य कालादेः स ५ यस्य सः अविप्रकृष्टदेशादिः अविप्रकृष्टत्वं च देशादेर्योग्यतयैव न संसर्गितया व्यवहितदेशा
देरपि प्रदीपकत्वात् । उक्तं चैतत्पूर्व 'यदा यत्र' इत्यादिना । ततो निराकुलतया बहिरर्थसिद्धेः कथं विज्ञानवाद इति भावः ।
___ ननु च योग्यतावगमः कार्यदर्शनादेव, तच्च कार्य व्यतिरिक्तविषयदर्शनमेव, तच्च न, स्वरूपादन्यत्र ज्ञानप्रवृत्तेरनवलोकनात् , नीलादेरपि ज्ञानानुप्रविष्टस्यैव प्रत्यवभासनात् , न बहि. १० भूतस्येति चेत् ; तदेवाह-'अन्यवेद्यविरोधात्' इति । अन्यच्च तज्ज्ञानात् व्यतिरेकात्
वेद्यञ्च तद्विषयत्वात् तस्य विरोधात्। तथा हि-यदि नीलादिः संवेदनमननुप्रविष्टः कथं तत्समानाधिकरणतया परिज्ञानम् 'नीलादिः संवेद्यते' इति, तदनुप्रविष्टस्यैव तथा तद्दर्शनात् नीलमुत्पलमितिवत् । अनुप्रविष्टश्चेत् कथं तद्वाह्यत्वम् अनुप्रवेशविरोधात् ? तदुक्तम्
"यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते ?
न चेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते ?” [प्र०वार्त्तिकाल० ३।३३१]इति ।
ततो 'अन्यवेद्यविरोधान्न सन्तानः सन्तानान्तरं दीपयेत्' इति । तत्रो. त्तरमाह-'किमचिन्त्या योगिनां गतिः' इति । किं कुतो योगिनां परिशुद्धज्ञानसम्पन्नानां बुद्धानां गतिः बुद्धिः अचिन्त्या अविचारयितव्या ? साप्येवं विचारयितव्यैव ।
तथा हि-यदि सा स्वरूपादन्यत्र न प्रवर्तते कथं तया तेषां योगित्वम् अतिप्रसङ्गात् । २० प्रवर्तते चेत; कथमन्यत्रापि अन्यवेद्यविरोधो यतः सन्तानः सन्तानान्तरं न दीपयेत् ? दीपयेत् ,
तत्कृतमुपकारमपेक्षमाण एव उपकारित्वस्यैव ग्राह्यलक्षणत्वादिति चेत् ; न ; योगिज्ञानापेक्षयापि तस्यैव तल्लक्षणत्वापत्तेः । तथा च यदुक्तम्
"रूपादेश्चतसश्चैवमविशुद्धधियां प्रति । ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥' [प्र०वा० २।५३२] इति ।
तदपर्यालोचितवचनं भवेत् । तदपेक्षयाऽन्यदेव ग्राह्यलक्षणं तत्तु नास्मदादिभिरित्यन्तया शक्यनिरूपणमतो नोच्यते । अस्मदादिज्ञानापेक्षमेव तु तल्लक्षणं शक्यनिरूपणत्वादुच्यते इति चेत् ; न ; अनिरूपितेन तल्लक्षणेनं तेषां तज्ज्ञत्वे कणादादीनामपि तत एव तत्प्रसङ्गात् । तथा च कथं तत्परिहारेण तथागतानामेव प्रामाण्यपरिकल्पनमुपपद्येत । तदुपपादयता
१ तदपेक्षस्य आ०, २०, ५०। २ -त्वादित्युक्त-भा०, ब० ।-वादित्ययुक्त-प० । ३ ग्राह्यलक्षणेन । ४ कणादादिपरिहारेण । ५ "प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । (प्रमाणसमु. श्लोक १)"-ता०टि।