________________
प्रथमः प्रत्यक्षप्रस्तावः
३५३ ब्रह्मत्वमल्पस्य । तत्त्वेऽपि न तस्य स्ववेदने परवेदनम्, विभ्रमाभावात् "अविज्ञातं विज्ञात" [ बृहदा०३।८।११] इति वचनाच्च । परतस्तस्याविज्ञानादविज्ञातत्वं तेनोच्यते स्वतस्तु विज्ञात एवाल्पोऽपीति चेत् ; न तर्हि परविज्ञानम् “ विज्ञातं द्वैतं विज्ञेयं न विजानाति" [ ] इत्यादिना आत्मज्ञस्य परविज्ञानप्रतिषेधात् । भूमन्येव तेनापि तत्प्रतिषेधो नाल्पे तत्रात्मज्ञानवत् परज्ञानस्यापि भावादिति चेत् ; न; "तस्यापि भूमाभेदात्, तत्रापि तनिषेधात् । ५ उपाधिमत्तया भेद एव ततस्तस्येति चेत् ; कथं तहिं ज्ञत्वं तात्त्विकस्य ज्ञात्रन्तरस्यानभ्युप. गमात् , कल्पितेन च ज्ञत्वेन ब्रह्मत्वानुपपत्त: ? ततस्तस्याप्यात्मज्ञत्वे न परवेदनमिति न सन्त्येवं जीवाः स्वतः , परतश्चाप्रतिपत्त । तन्न तेषामेकेन दोपनमिति सूक्तम्- अन्यवेद्यविरोधान्न दीपयेत्' इति ।
तत्रोत्तरमाह-'किमचिन्त्या योगिनां गतिः' इति । किमचिन्त्या ? चिन्त्यैव १० गतिः प्रवृत्तिः योगिनां सम्बन्धवताम् । तथा हि-पूर्वोत्तरज्ञानानां कार्यकारणभावः सम्पन्धस्तेषां सत्येव भेदे भवति, भेदश्च न तेषां कुतश्चिच्छक्यपरिज्ञानः, सर्वज्ञानानां स्वरूपमात्रनिष्ठत्वेन प्रतियोगिन्यप्रवृत्त । अप्रतिपन्ने च प्रतियोगिनि 'अहं कारणमस्य अहं कार्यमस्य' इति व्यवस्थापयितुमशक्यम् । तत्कथं ब्रह्मवज्जारज्ज्ञानस्यापि कचित्कारणत्वम् ? मा भूदिति चेत् ; तत्राह
'आयातम्' [अन्यथाऽद्वैतमपि चेत्थमयुक्तिमत् ] । इति ।
जायज्ज्ञानं प्रबोधस्यानुपलब्धमपि कारणं ब्रुवाणस्यैकं दूषणमुक्तम् 'एकः किन्नेष्टः' इत्यादिना । दूषणान्तरमिदानी वक्तव्यम् । तथा [ हि ] जाग्रज्ज्ञानं प्रबोधादुत्पन्न यदि तस्य जनकम्"; परस्पराश्रयः- 'उत्पन्नेनै तस्य जननम् , जनिताच्चोत्पत्तिः' इति । अनुत्पन्नं चेत् ; न; सर्वजननप्रसङ्गात् । तथा हि
अनर्थजं चेद्विज्ञानमर्थवित् सर्वविद्भवेत् । ज्ञानान्तरं वृथा प्राप्तमिति यद्वन्निपद्यते ।। ८७७।। तथेदमपि वक्तव्यं जाग्रज्ज्ञानं प्रबोधतः । अजातं तस्य हेतुश्चेत्सर्वहंतुःप्रसज्यते ॥८७८॥ हेत्वन्तरं ततः प्राप्तं त्वन्मतेऽपि वृथेहितम् । एकहेतुप्रवादश्च ब्रह्मवादं प्रकल्पयेत् ।। ८७९॥ प्रत्यासत्त्या स तस्यैव हेतुर्नान्यस्य चेन्मतः । तस्या" एवार्थनियमो ज्ञानस्याप्यनुमन्यताम् ।।८८०।।
१-ज्ञानत्वं-आ०, ब०, ५०। २ अविज्ञातमिति वचनेन । ३ विज्ञानद्वैतं-आ०, ब०, ५०। ४ परे वि-भा०, ब०,५०। ५ अल्पस्थापि । ६ अल्पेऽपि । ७ भूम्नः अल्पस्य । ८ प्रबोधस्य । ९ "जनक तहिं"-ता. टि.। १. जाग्रज्ञानेन । ११ प्रबोधस्य । १२ "अर्थवित् तर्हि"-ता. टि.। १३ "भवेत् तथा च"-ता. टि० । १४ अज्ञातं आ०, ब०, ५० । १५ प्रत्यासत्तेः ।