________________
३५२ न्यायविनिश्चयविवरणे
[११८४ तत्प्रतिपत्तेः 'ततस्तत्प्रतिपत्तिरेव तेषु तत्कल्पनमिति चेत् ; न ; घटादावपि प्रसङ्गात् । एवञ्च चेतन एव सर्वभेदो नाचेतन इति प्रतीतिविरुद्धमापद्येत । पुरुषोऽपि तान् प्रतिपद्यमानः प्रतिपन्नः, तद्विपरीतो वा प्रतिपद्येत ? तद्विपरीत एव, "तद्वा एतदक्षरं गार्यदृष्टं द्रष्ट अश्रुतं
श्रोतृ अमतं मन्तु अविज्ञातं विज्ञात"[बृहदा०३।८।११]इति वचनादिति चेत् ; कथमिदानीं ५ तस्य सर्वज्ञत्वम्, आत्मापरिज्ञाने तदनुपपत्तेः । न चासर्वज्ञ एवासौ “सर्वज्ञ ब्रह्म जगत्कारणम्" [अ० भा० १।१।१०] इति भाष्यात् । “स वेत्ति विश्वम्" [ श्वेता० ३।१९ ] इत्याम्नायाच्च ।
भवतु प्रतिपन्न एदेति चेत् ; स भूमा, अल्पो वा भवेत् ? भूमा चेत् ; तथापि कथं तस्य सर्वज्ञत्वं स्वरूपादन्यस्याप्रतिवेदनात् ? “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्य१० द्विजानाति स भूमा" [छान्दो० ७।२४।१] इति वचनात् । तदवस्थायोमन्यदेव नास्ति
सर्वस्य भूमन्यनुप्रवेशात् । न चासतोऽपरिज्ञानादसर्वज्ञत्वम्, अपि तु सत एव सविशेषात्परि. ज्ञानात् । न चेदं भूमन्यस्ति, सतो भूम्नः सर्वात्मना परिज्ञानात् । ततः स्वपरिज्ञानमेव तस्य सर्वज्ञत्वमिति चेत् ; कथं तर्हि तस्य जगत्कारणत्वं तदन्यस्य जगत एवाभावात् । स एव जग
दिति चेत् ; न; तस्य तत एवानुत्पत्तेः । यद्यसौ सन् किमुत्पत्त्या ? यद्यसन् ; कुत उत्पत्ति१५ रिति ? कथं वा ततो जीवादेर्भेदस्य प्रतिपत्तिः तदानीमसतस्ततोऽपि तदनुपपत्तेः । तन्न भूमा जगत उत्पत्त: प्रतिपत्त'र्वा निमित्तमुपपन्नम् ।
____ भवत्वल्प एव स इति चेत् ; तेनापि यदि भूम्नोऽपरिज्ञानं कथं सर्वज्ञत्वम् ? परिज्ञाने स एव भूमा "ब्रह्मवद ब्रह्मैव भवति" [मुण्ड०३।२।९] इति कथमल्पत्वम् ?
उपाधिपरिच्छिन्नतया परिज्ञानादिति चेत् ; न; तत्परिच्छेदस्यातद्रूपत्वात् । न च अतद्रूपपरि२० ज्ञानं तत्परिज्ञानम् अन्यत्र विभ्रमात् । विभ्रमे च कथं तस्य ब्रह्मत्वं यतो द्विविधं ब्रह्मकल्पनं
शोभेत?"अपहतपाप्मत्वादिभिर्ब्रह्मधमैरिति चेत् ; न; विभ्रमस्यैव पाप्मत्वात् । नायं पाप्मा अदु:खहेतुत्वादिति चेत् ; न; अस्मदादिविभ्रमस्याप्यतद्धेतुत्वापत्त । तथा चासङ्गतमेतत् - "मृत्योःस मृत्युमामोति य इह नानेव पश्यति" [कठो० ४।१०] इति । "ब्रह्मज्ञानिभ्रमस्यैवापाप्मत्वं
ब्रह्मज्ञानज्वलनोपहतशक्तिकत्वान्नेतरविभ्रमस्य विपर्ययादिति चेत् ; न; ब्रह्मज्ञानी च विभ्रमी २५ चेति व्याघातात् । "अथ तस्यापि इच्छया भवत्येव विभ्रम इति चेत्, न; इच्छाविषयस्य
विभ्रमात्प्रागदर्शनात् अदृष्टतद्विषयस्य चेच्छानुपपत्त: । प्राक्तदर्शनभावे च नेच्छातो विभ्रमः विभ्रमादेव तद्भावात् । तथा च अनादिविभ्रममलोपहतस्य कथं तस्यापहतपाप्मत्वादिक" यतो
१ पुरुषात् । २ प्रतीतिरुद्ध-भा०, ब०, ५०। ३ "अगाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरम्यं पुरुषं महान्तम् ॥"-ता. टि.। "सवेत्ति वेद्यम्"श्वेता । ४ यतु ता०। ५ भूमावस्थायाम् । ६ ब्रह्मणः । ७ ब्रह्मश्व आ०, ब०, प.। ८ ब्रह्मस्वरूत्वाभावात् । ९ "द्वे ब्रह्मणो वेदितव्ये शब्दब्रह्म परञ्च यत्।"-मैत्रा०६।२२।१० "अहतरामा ह्येष ब्रह्मलोकः।"-छान्दो.
। ११ विभ्रमः । १२ विभ्रसस्यैवा-आ०,०प० । १३ अर्थस्यापि छाया-आ.,ब०,५०। १४ चेच्छामा०, ब०, ५०।१५-कं न यतो-आ०, ब०, ५०।