________________
१९८४
प्रथमः प्रत्यक्षप्रस्ताव सुवर्णस्य रुचकादिव्यतिरेकेऽपि रुचकादयस्तव्यतिरिक्ता एव तद्वत्परमात्मनो जीवादिव्यतिरेकेऽपि जीवादयस्तदव्यतिरिक्ताः किन्न भवन्तीति चेत् ? कुतः पुनः सुवर्णस्य रुचकादिव्यतिरेकः ? 'तदभावेऽप्यवस्थान्तरे भावादिति चेत् ; रुचकादीनामपि तर्हि तद्व्यतिरेकः, तदभावेऽपि द्रव्यान्तरे भावात् । अन्य एव ते रुचकादय इति चेत् ; सुवर्णमप्यवस्थान्तरगतमन्यदेव किन्न स्यात् ? प्रत्यभिज्ञानादिति चेत् ; न; 'अमी व रुचकादयः अमी च रुचकादयः' इति तत्रापि ५ 'तत्प्रवृत्तेरवलोकनात् । तादृश्यात्तत्प्रवर्तन नैकत्वादित्यपि समान स्वर्णेऽपि । ननु अस्ति तावद् द्रव्यादव्यतिरेकः रुचकादीनाम् , तत्तु द्रव्यं स्वर्णमन्यद्वेति किमनेन ? तदव्यतिरेकमात्रादेवं निदर्शनात् परमात्माव्यतिरेकस्य जीवादिषूपकल्पनादिति चेत् ; न; अस्ति तावत्पर्यायतादात्म्यं सुवर्णस्य, ते च पर्याया रुचकादयोऽन्ये वेति किमनेन, तत्तादात्स्यादेव निदर्शनाज्जीवादव्यतिरेकस्य च परमात्मन्युपपादनात् । एकैकपर्यायपरिहारेणेव सकलपर्यायोपसंहारेणापि सम्भवति सुर्वणं १० तत्कथं तस्य तन्मात्रेणापि तादात्म्यं यदेवमुच्यत इति चेत् ; न; एकैकद्रव्यपरित्यागेनेवे सकलद्रव्यपरित्यागेनापि रुचकादीनां सम्भवाद्, अन्यथा अपिवचनानुपपत्तेः, कल्पनामात्रस्योभय. त्रापि समानत्वात् । तन्न व्यतिरिक्तादेव सुवर्णात् स्वस्तिकादीनामव्यतिरेको यतस्तव्यतिरेकिण एवात्मनो जीवादीनामव्यतिरेकात् तद्वच्चेतनधर्मत्वं तेषूपपाद्यत । तन्न "तेषां तात्त्विक ज्ञानधर्मत्वम् ।
कल्पितमेव भवत्विति चेत; केन तत्कल्पनम् ? अविद्याविलासेनेत चेत; न; जीवादिभेदव्यतिरेकिणस्तस्यैवाभावात् । प्राग्भवीयस्तद्भदै एव तद्विलास इति चेत् ; न; तस्यापि वस्तुतो ज्ञानरूपत्वाभावात् । कल्पितमेव तत्रापि तद्रूपत्वं प्राग्भवीयेन तद्भेदेन । न चैवमनवस्थानं दोषः, अनादित्वात् प्रबन्धस्येति चेत् ; तद्वत्तदज्ञानरूपत्वस्याप्यनादित्वात् । न चातद्रूपादेव क्वचित्तद्रूपकल्पनम् ; अचेतने घटादिप्रबन्धेऽपि प्रसङ्गात् । तन्नाविद्याविलासेन तत्कल्पनम् । २०
___ अस्तु, परमात्मनैव तत्कल्पनम् ; तस्य "तत्त्वत एव ज्ञानरूपत्वात् “सत्यं ज्ञानमनन्तं ब्रह्म" [तैत्ति० २।१।१] इति वचनादिति चेत् ; भवत्वेवम् ; तथापि कथं कल्पितस्य तद्रूपस्य क्वचित्प्रतिपत्त्यङ्गत्वम् ? कल्पितस्य पावकस्य पावकाङ्गत्वादर्शनात् । कल्पितोऽप्य हिदंशो भवत्येव मरणाङ्गमिति चेत् ; न ; वस्तुसतस्तदंशकल्पिनो ज्ञानस्यैव "तदङ्गत्वात् । तद्देशस्य तदङ्गत्वे अतिप्रसङ्गात् । भवत्वत्रापि वस्तुसतः परमात्मन एव "तत्कल्पनाकृतस्तत्प्रति- २५ पत्त्यङ्गत्वम् , "तमेव भान्तमनुभाति सर्वं तस्यैव भासा सर्वमिदं विभाति" [कठो०५।१५] इति वचनादिति चेत् ; किमिदानी जीवेषु चेतनत्वकल्पनेन कल्पितेऽपि तस्मिन् पुरुषादेव
रुचकाद्यभावेऽपि । २ सुवर्णव्यतिरेकः । ३ लौहादौ। ४ प्रत्यभिज्ञानप्रवृत्तेः । ५ सादृश्यात् । -द्रव्यादिव्यति-आ०, २०, ५०। ७- दर्श-आ०, २०, ५०। ८ पर्यायमात्रेणापि । ९ -गेनैव समा०,०।-गेनापि स-प०।१० जीवानाम् । ११ अविद्याविलासस्यैव । १२ प्राग्भावीय-मा०, ब०,५०। जीवादिभेद। १३ तद्रूपं प्रारभावी-आ०, ब०, प० । १४ तद्वत एव आ०, ब०, ५०। १५-स्यवा पावकस्य पावकाङ्ग-आ०, ब०, ५०।१६ -तदंश-आ०,व०प० । १७ मरणाङ्गत्वात् । १८-नाकुतस्त-आ०, ब., प०।१९ पुरुषा-आ.,.,.।