________________
३५० म्यायविनिश्चयविवरणे
[११८४ भेदवचनं तु तेषामुपाध्युपरमे पृथगवस्थानाप्रतिवेदनात् , तद्विकारत्वाच्च । तस्यैव परमात्मनः खल्वेते विकारा य इमे जीवा अन्ये च भेदाः। तदुक्तम्-"यथाग्नेबलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन् एवमेव एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यः लोकः (काः)।" [कौषीत० ३।३] इति । तदेवाह
अविप्रकृष्टदेशादिरनपेक्षितसाधनः ॥८३॥ दीपयेत् किन्न सन्तानः सन्तानान्तरमञ्जसा । इति ।
दीपयेत् दीप्यमानं प्रकाशमानं कुर्यात् , किन्न कुर्यादेव । किम् ? सन्तानान्तरं जीवादिलक्षणं सन्तानभेदम् । को दीपयेत् ? सन्तानः सम् मोहन्यूनाधिकभावरहितस्तानो विस्तारो यस्य सः परमात्मा, तस्यैव वृद्धिपरिक्षयरहितविस्तारमूर्तिकतया ब्रह्मविद्भिरभ्यनुज्ञानात् । कथं दीपयेत् ? अञ्जसा परमार्थेन । 'परमार्थत्वं बलवदविद्याभिप्रायवशात् वस्तुतः सन्तानान्तरस्यापरमार्थत्वात् । सः कीदृशः ? अविप्रकृष्टः सन्तानान्तरेण सह प्रत्यासन्नो देशादिर्यस्य स तथोक्तः । तदनेन देशकालाभ्यां प्रत्यासन्नत्वात्प्रबोधादौ तस्यैव हेतुत्वं न जाप्रज्ज्ञानादेः विपर्ययादित्यावेदयति । पुनस्तद्विशेषणम्-अनपेक्षितं स्वोत्पत्तिं प्रति साधनं निमित्तं येन स तथोक्तः । तदनेनापि तस्य नित्यत्वमावेदयति । अनित्यत्वे अनपेक्षितसाध. नत्वानुपपत्तेः । प्रसिद्धं चैतत् ब्रह्मविदाम्-“न तस्य कश्चिज्जनको न चाधिपः" [श्वेता० ६।९] इत्यागमात् । तदेतदसहमानः सौगत आह
अन्यवेद्यविरोधात् [ किमचिन्त्या योगिनां गतिः ॥४४॥ इति ।
अन्ये भिन्नाः परस्परतः परमात्मनश्च जीवादयस्ते च ते वेद्याश्च वेदनविषयाः तेषां विरोधात् । 'न दीपयेत्' इति योजनम् । इदमनेनावेदयति-प्रतिविदितानामेव तेषां स दीपकः परिकल्पयितव्यो नान्येषां व्योमकुसुमादिवत् , वेद्यता च तेषामनुपायत्वाद्विरुद्धेति । न विरुद्धा, तेषां स्वत एव वेद्यत्वादिति चेत् ; न; वेदनस्य परमात्मधर्मत्वेन तेष्वसम्भवात् । "नान्यदस्ति द्रष्ट्ट नान्यदस्ति श्रोत नान्यदस्ति मन्त नान्यदस्ति विज्ञात" [बृहदा० ३।८।१] इति वचनात् । नायं दोषः, तेषामपिं तदव्यतिरेकात्तद्धर्मत्त्वोपपत्तेरिति चेत् ;न ; तेभ्यस्तस्य "व्यतिरेके तेषामपि" ततो" व्यतिरेकस्यैव न्याय(य्य)त्वात् , "तस्योभयनिष्ठतयैव प्रत्यवलोकनात् । प्रसिद्धश्च "तेभ्यस्तस्य” व्यतिरेको ब्रह्मविदाम् , “परमेश्वरस्तु अ. विद्याकल्पिताच्छारीरात्कत्तु भॊक्त विज्ञानात्माख्यादन्यः, यथा मायाविनश्चमखड्गधरात् सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः" [अ० भा० १।१।१७] इत्यादिभाष्यश्रवणात् ।
तथैवाह मा०, ब०, ५०। २. समो न्यूना-आ०, ब०, ५०।३ "अस्थूलमनण्वह्रास्व..."बृहदा० ३।०८। ४-क्तः स्यादनेन आ०, ब, प०। ५ जीवानाम् । ६ परमार्थध-आ०, ब०, ५०। ७ जीवानामपि । ८ परमात्माऽव्यतिरेकात् । ९ जीवेभ्यः । १० परमात्मनः । ११जीवानामपि । १२ ब्रह्मणः । १३ व्यतिरेकस्य । १४ जीवेभ्यः । १५ परमात्मनः । तेभ्यस्तयति-आ०, ब०, प० ।