________________
प्रथमः प्रत्यक्षप्रस्ताव:
३४९
१८२] तदेवाह
एकः किन्नेष्टस्तदभावाविभावनात् । इति । एकः द्वितीयरहित आत्मा इति यावत् । किम् ? कस्मात् । नेष्टः ? इष्ट एव प्रबोधहेतुः । कुत एतत् ? तदभावस्य एकाभावस्य अविभावनाद अनिश्चयात् ।।
ननु यद्यसौ प्रामारामादेरन्य एव, कथमस्ति ? अप्रतिभासनात् । अस्तित्वेऽपि ५ प्रामारामादिः किं भवति ? असन्नेवेति चेत् ; न; प्रतिभासनात् । प्रतिभासवतोऽप्यसत्त्वे तदास्मन्यपि प्रसङ्गात् । सन्नेवेति चेत् ; न; अद्वततदात्मवादव्यापादनात् । भवतु प्रामारामादिरेवायमिति चेत् ; न; चित्राकारैकज्ञानाभ्युपगमेन बौद्धदर्शनस्यैवैवं प्रतिष्ठानात् न ब्रह्मवादस्य, तत्र निराकारस्यैवात्मनः प्रसिद्धः । “अस्थूलमनवै( मनणु ) अह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतदो( मो )वायुअनाकाशम्" [ बृहदा० ३।८।८ ] इत्यादि वचनात् । १० तत्कथं तदभावाविभावनं तदभावस्यैव विभावनादिति चेत् ; न; जाग्रज्ज्ञानेऽप्येवं प्रसङ्गात् । तदपि च यदेतत् 'नीलमहं वेद्मि' इति स्वपरव्यवसायात्मकं ज्ञानं न ततो भिन्नमस्ति अप्रतिवेदनात् । अस्तित्वेऽपि प्रकृतं किं भविष्यति ? असदेवेति चेत् ; न; प्रसिद्धस्यासत्त्वे अन्यत्रा. प्यनाश्वासात् । सदेवेति चेत् ; न; उभयाप्रतिवेदनात् । “मनसोयुगयवृत्तेः" [प्र० वा० २।१३३ ] इत्यादेनिषिद्धत्वात् । भवतु तदेवं तदिति चेत् ; न; अप्रतिवेदने तदेवेत्ययोगात् । १५ अस्त्येव स्वतस्तस्य प्रतिवेदनमिति चेत् ; तत्किन्नाम प्रमाणम् ? अप्रमाणात्तत्प्रतिवेदनायोगात् । प्रत्यक्षमिति चेत् ; न; तस्य निर्विकल्पकत्वात् । निर्विकल्पं हि प्रत्यक्षं तत्कथं तत्स्वभावशून्यस्य व्यवसायस्य स्यात् ? अस्त्येव तस्यापि तत्स्वभाव इति चेत् ; न; 'व्यवसायश्च निर्विकल्पश्च' इति व्याघातात् । नायं दोषः ऐकान्तिकस्य व्यवसायस्यानभ्युपगमादिति चेत्, एवमपि स्वतो निर्विकल्पकस्वभावस्यैव प्रतिवेदनं प्रत्यक्षं न व्यवसायात्मनः । पुनस्त- २० स्यापि निर्विकल्पस्वभावकल्पनायामनवस्थानम् , 'व्यवसायश्च निर्विकल्पश्च' इत्यादेरनुबन्धात् । तन्न तत्प्रत्यक्षम् । नाप्यनुमानम् अलिङ्गजत्वात् । नापि प्रमाणान्तरम् अनभ्युपगमात् । ततो न स्वतस्तत्प्रतिवेदनम् । नापि परतः "तस्या नानुभवोऽपरः" [प्र० वा० २ । ३१७] इति व्याघातात् ,तद्वदर्थस्यापि प्रतिवेदनप्रसङ्गाच्च । ततो न जायज्ज्ञानं नाम किञ्चित्प्रतिविदितमस्ति यस्य प्रबोधहेतुत्वकल्पनम् । अप्रतिविदितस्यापि तत्कॅल्पने परब्रह्मण एव तदस्तु । २५ ततः सूक्तम् 'एक' इत्यादि ।
यद्येक आत्मा कथं प्रतिशरीरं जीवभेदः 'देवदत्तजीवो यज्ञदत्तजीवः' इति ? अभिन्ना एव खल्वात्मनों जीवाः । तदेकत्वे च तेषामप्येकत्वमेव स्यान्न नानात्वम् , न चैवम् , नानात्वस्यैव तेषु दर्शनादिति चेत् ; न ; सम्यगेतत् ; उपाधिकल्पितेभ्यस्तेभ्यः परमात्मनोऽन्यत्वात् । तद्यथा-घटाकाशादुपाधिपरिच्छिन्नात् अन्योऽनुपाधिरपरिच्छन्न आकाश इति । तद. ३०
-सत्येत-आ०,०,५०।२'नीलमहं वेद्मि' इति ज्ञानम् । ३ जाग्रज्ज्ञानेऽपि । ४ जाग्रज्ज्ञानमेव । ५ निर्विकल्पकस्वभाव । ६ हेतुत्वकल्पने । ७ ब्रह्मणः । ८ -न ताना-आ०, ब०, प० । ९ जीवेभ्यः ।