________________
३४८
१०
म्यायविनिश्चयविधरणे
[ १८२ तन्न विभ्रमैकान्तवादः, तद्वदाम्नायात् ब्रह्मवादस्याप्यवस्थितेः।।
भवतु तर्हि विज्ञानवाद एव, तस्य प्रत्यक्षबलादेवोपपत्तेः, न ब्रह्मवादो विपर्ययादिति चेत् ; अत्राह
प्रत्यक्षलक्षणं ज्ञानं मूञ्छितादौ कथं ततः ॥ इति ।
प्रत्यक्षं निर्विकल्पमनुभवनं तल्लक्षणं प्रमाणं यस्मिन् तत् प्रत्यक्षलक्षणं ज्ञानम् । कथम् ? न कथश्चित् । कुत एतत् ? मूञ्छितो मोहाक्रान्त आदिर्यस्य 'सुषुप्तादेः तत्र ततस्तल्लक्षणज्ञानप्रसङ्गात् । ननु तत्र तल्लक्षणं प्रत्यक्षमेव नास्ति कथं तत्प्रसङ्ग इति चेत् ? कुतस्तन्नास्ति ? अनुपलम्भादिति चेत् ; न ; अन्यत्रापि समानत्वात् , अखण्डवेदनस्य जाप्रदादावप्यप्रतिपत्तेः।
अपि च, मूछितादौ ज्ञानाभावे प्रबोधस्य कदाचित्कत्वेनाहेतुत्वायोगात् शरीरोपादानत्वप्रसङ्गः । तदाह
अज्ञानरूपहेतुस्तदहेतुत्वप्रसङ्गतः ॥८२॥
प्रवाह [ एकः किन्नेष्टस्तदभावाविभावनात् ] । इति ।
प्रवाहः प्रबन्धो ज्ञानस्य, 'ज्ञानम्' इत्यस्य विभक्तिपरिणामेन सम्बन्धात् । कदा १५ भवतः ? मूछितादेव॑म् । 'मूञ्छितादी' इत्यस्यापि पश्चमीपरिणामेन योजनात् ।
किम् , अज्ञानम् अचेतनं रूपं स्वभावो यस्य शरीरस्य स एव हेतुः कारणं यस्य सः अज्ञानरूपहेतुस्तत्प्रवाहः भवति' इति शेषः। कुत एतत् ? तस्य तत्प्रवाहस्य अहेतुत्वम् अकारणकत्वं तस्य प्रसङ्गतः प्रसञ्जनात् । तात्पर्यम्
गाढामूर्छाद्यवस्थायां ज्ञानस्याभावकल्पने । तस्य प्रबोधहेतुत्वमसतो न भवेत्ततः ॥८७२॥ शरीरमेव तस्येदं कारणं परिकल्प्यताम् । अन्यथाऽहेतुतैव स्याद् गत्यन्तरपरिक्षयात् ॥८७३॥ अनित्यत्वमहतोश्च कथं नामोपपत्तिमत् ? "नित्यं सत्त्वमसत्त्वं वा" इत्यादेः स्वोक्तस्य पीडनात् ।।८७४॥ जाप्रज्ज्ञानस्य हेतुत्वाद् दोषो नैष भवेद्यदि । चिरनष्टस्य हेतुत्वं कथं तस्योपकल्प्यताम् ॥८७५॥ स्वकाले तस्य भावाच्चेदात्मनः किन्न कल्प्यते ? नित्यैकव्यापिनस्तस्याप्यभावाप्रतिवेदनात् ॥८७६॥
१ सुप्तादे-आ०, ब०, ५०। २ प्र० वा० ३।३४ । ३ "गाढसुप्तस्य विज्ञान प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चितम् ॥"-प्र. वार्तिकाल. १४९ ।