________________
३४७
१६८०
प्रथमः प्रत्यक्षप्रस्तावा "आहुर्विधात प्रत्यक्षं न निषेध विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥” [ ब्रह्मसि० २।१ ] इति । ततः स्थितम् 'भेदो वा' इत्यादि ।
___ कदैतत् ? इत्याह-हेतुसाम्येऽपि' इति । हेतूनां प्रत्यक्षादिन्यायानां साम्यं विधिमात्रविषयत्वेनागमसादृश्यं तस्मिन् । 'अपि' इति सौष्ठवे, कुतश्चायं नियमः सुखादिः ५ सुखादिरेव न दुःखादिः, सोऽपि स एव न सुखादिरिति यतस्तस्याद्वैतप्रत्यनीकत्वं भवेत् ? एतेनैव स्वहेतुसामर्थ्यादुत्पत्तेरिति चेत् ; अत्राह
भेदतः। तेषामेव सुखादीनां नियमश्च निरन्वयः ।।८०॥ इति ।
भेदतः भेदमाश्रित्य योऽपि नियमः परस्परामिश्रणात्मा । केषाम् ? तेषाम् १० अनन्तरोक्तानां सुखादीनाम् । स किम् ? निरन्वय एव अशक्यसाधन एव, भिन्नप्रक्रमतया एवकारस्यात्र सम्बन्धात् । तथा हि-भेदो' नाम व्यावृत्तिः, सा चानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च । तथा च तस्या' एकस्याः अनेकवृत्तेर्वस्तुस्वभावत्वेन वस्तूनामपि सुखादीनां भेदो न स्यात् । नैकस्मादभिन्नमभिन्नस्वभावं भिन्नं युज्यते तद्वदेव । "अपि च, भेदो नाम परस्परानात्मा स्वभावविशेषः । स चेद्वस्तुनः स्वभावः ; वस्तूनामभावप्रसङ्गः अभावात्म-१५ प्रतिज्ञानात् । प्रकारान्तरम् भेदश्चेद्वस्तुनः स्वभावो नैकं किञ्चन वस्तु स्यात् , भेदेन एकत्वस्य विरोधात् परमाणुरपि भेदादनेकात्मक इति नैकः । तथा च तत्सगुञ्चयरूपो नैकोऽप्यस्यात्मा 'नावकल्प्येत तत्रैकत्वानेकत्वयोरनुपपत्तेः, तृतीयप्रकारासम्भवाच्च वस्तुनो निःस्वभावताप्रसङ्गः। "अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिराश्रीयते तथापि व्यावृत्तेरस्वरूपत्वात् स्वरूपेण भावा न व्यावृत्ताः स्युः।
स्यान्मतम्- वस्तुन्ययं विकल्पः तत्त्वमन्यत्वं वेति नावस्तुनि । अवस्तु चायं भेदो विकल्पोपनीतत्वात् मायातोयवत् तत्कथमत्रायं विचार इति ? तन्न ; एवमपि निःस्वभावेन वस्तूनां वस्तुतो भेदाभावापत्तेः। कल्पितस्तु तद्भेदो न वार्यत एव ब्रह्मवादिनाप्यनाद्यविद्या. विलसितस्य तद्भेदस्याभ्यनुज्ञानात् । तन्न सुखादीनां भेदतो नियमः, तस्यैव विचाराक्षमत्वेनासम्भवात् । तदुक्तम्
"न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः । अरूपेण च मिन्नत्वं वस्तुनो नावकल्प्यते ॥" [ब्रह्मसि० २।५] इति ।
१ तुलना-ब्रह्मसि. पृ. ४७ । २-ते ज्ञा-आ०, ब०, ५०। ३ व्यावृत्तः। ४ तुलना-"भेदः परस्परानात्मस्वभावः."-ब्रह्मसि. पृ० ४७ । ५ "अपरः प्रकारः भेदश्चेद्वस्तुनः स्वभावः"-ब्रह्मसि. पृ. ४८। ६ नावकल्प्यते आ०, ब०। नावकल्पते प० । ७ ब्रह्मसि. पृ० १७८ ब्रह्मसि० पृ. ४८ । ९ वस्तुभेदा-आ०, ब०,५०।