________________
न्यायविनिश्वयविवरणे
[ ११८०
'अपि च, सन्निहितावलम्बनं प्रत्यक्षं नासन्निहितमर्थमवभासयितुमर्हति । न चानवभासमानं व्यवच्छेत्तुं पर्याप्नोति । अनवभासे हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्यचित् । तस्मान्नावभा (न्नानवभा) समाने विषये अन्यव्यवच्छेदः, अन्यस्य घटादेरसन्निहितत्वेन तज्ज्ञानेऽनवभासनात् । ज्ञानान्तरेऽवभासनाद्व्यवच्छेद इति चेत्; न; ५ स्वयं व्यवच्छेदकृता तद्रूपासंस्पर्शे 'अस्यायं व्यवच्छेदः" इति प्रतिपत्त्यसम्भवात् । इदमप्युक्तम्"क्रमः सङ्गच्छते युक्त्या नैकविज्ञानकर्मणोः ।
[न] सन्निहितजं तच्च तदन्यासङ्गि जायते ||” [ ब्रह्मसि० २ | ३] इति ।
३४६
ननु इदमेव दर्शनस्यान्यव्यवच्छेदकारित्वं यन्नियतविषयत्वम् । तद्धि यथा नीलं तदाकारनियमाद् विधत्ते तथा तदन्यन्न भवतीति व्यवच्छिनत्यपि, अन्यथा नियतनीलविधाना१० नुपपत्तेः । तद्विधानादन्यस्य च अन्यव्यवच्छेदस्याभावात् । ' इदमस्ति इदमत्र नास्ति ' इति तु विधिव्यवच्छेदव्यवहारः दर्शनबलभाविकल्पविकल्पित एवेति चेत् ; न ; नीलदर्शनात् पीतादिवत् रसादेरपि व्यवच्छेदप्रसङ्गात् तत्प्रतिनियमस्याविशेषात् । भवत्येव तद्रूपतया तस्यापि व्यवच्छेदः, तद्देशादितयैव अनभ्युपगमादिति चेत्; न; पीतादावप्येवं प्रसङ्गात्, पीतादेस्तद्देशादित्वे भवत्युपलम्भो नीलवत्तुल्योपलम्भयोग्यत्वात् । न चोप१५ लब्धिः, ततस्तद्देशादितया पीतस्य व्यवच्छेदः, रसादेस्तु न तद्योग्यत्वम् अतो न " तथा "तव्यबच्छेद इति चेत् ; ताद्र्व्येणापि न भवेत्, तद्देशादित्ववदनुपलभ्यस्यैव तस्य तद्रूपतोपपत्तेः । उपलभ्यस्यानुपलभ्यत्वं कथं विरोधादिति चेत् ? अन्यतस्तर्हि विरोधाद् व्यवच्छेदो न दर्शननियमात् ? असति च व्यवच्छेदे कुतो विरोध: ? इतरेतराश्रयो वा - विरोधात् व्यवच्छेदस्य, ततोऽपि विरोधस्य व्यवस्थितेः । तस्मान्नैकविधिरन्यवच्छेदः ।
"अपि च, एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिद्ध्येत्, एकज्ञानसंसर्गात् एकत्र च ज्ञानस्यानियमात् । इदमप्युक्तम्
२०
"विधानमेव नैकस्य व्यवच्छेदोऽन्यगोचरः ।
मास्म भूदविशेषेण "मा न भूदेकधीजुषाम् ||" [ ब्रह्मसि० २।४ ] इति । तन्न व्यवच्छेदव्यापारं प्रत्यक्षमिति न भेदविषयम्, ततो न तेनैकत्वाम्नायस्य विरोधः । २५ तदप्यभिहितम्
""
१ “अपि च सन्निहितार्थालम्बनं प्रत्यक्षं नासन्निहितमर्थमवभासयितुमर्हति न चानवभासमानरूपं व्यवच्छेत्तुं पर्याप्नोति;अनवभासमाने हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्थात्, न व्यवच्छेदः कस्यचित् ; सर्वस्यवा स्यात् । तस्माच्चानवभासमाने व्यवच्छेद्ये व्यवच्छेदः । न च सन्निहितार्थावलम्बने प्रत्यक्षेऽसन्निहितावभासो युक्तः - ब्रह्मसि० पृ०४५ | २ तस्मान्नावभासने आ०, ब०, प० । ३ - णोः सन्नि - आ०, ब०, प० । ४ " न सन्निहितजं तश्च तदभ्यामशिं जायते ।" - ब्रह्मसि० । ५ नीलं पीतादिकं न भवति । ६ - तयास्या-आ०, ब०, प० । नीलरूपतया । ७ रसादेरपि । ८ नीलदेशतयैव रसादिव्यवच्छेदानभ्युपगमात् । ९ तुल्योपलम्भयोग्यत्वम् । १० नीलेड़शादितया । ११ रसादिव्यवच्छेदः । १२ तुलना - ब्रह्मसि० पृ० ४७ । १३ मा भूदेकधियामिति भा०, ब०, प० ।