________________
१८० ]
प्रथमः प्रत्यक्ष प्रस्तावः
३४५
प्रसज्यत एवेति । निदर्शनमाह - ग्राह्यग्राहकयोः नीलतद्वदनयोः इव तद्वदिति । हेतुरत्र 'भेदत्वात्' इत्यवगम्यते दृष्टान्ते तस्यैव भ्रान्त्यनुषञ्जनेन व्याप्तिपरिज्ञानात् । तदयं प्रयोगःसम्प्रीत्यादिः भ्रान्त्यनुषङ्गी भेदत्वात् ग्राह्यादिवदिति । भ्रान्त्यनुषक्तिकथनेन सम्प्रीत्यादेर्भेदस्य वस्तुतोऽसत्त्वं कथयन् तस्याद्वतप्रत्यनीकत्वं प्रतिषेधति । न हि भ्रान्त्यनुपक्कं द्वित्वं चन्द्रस्यैकत्वप्रत्यनीकमुपलब्धमितिं ।
२
तदेवमङ्गीकृत्य सम्प्रीत्यादिभेदं तस्य तत्प्रत्यनीकत्वमपाकृतम् । इदानीं स एवोपायान्नास्तीति निवेदयन्नाह -
भेदो वा सम्मतः केन [ हेतुसाम्येऽपि भेदतः ] । इति ।
भेदः सम्प्रीत्यादेर्नानात्वम् । 'वा' इति पक्षान्तरयोतने, सम्मतः सम्यक् प्रतिपन्नः । केन ? न केनचिज्ज्ञानेन ततो न तस्यै तत्प्रत्यनीकत्वम् अज्ञातस्य व्योमकुसुमवत् तदयोगादिति भावः ।
१०
कथं पुनः केनेति ? यावता प्रत्यक्षत एव सँ परिज्ञायते सम्प्रीत्यादेर्भेदाधिष्ठानस्यैव तंत्र परिस्फुटमवभासनात् । ततो नागमादप्यभेदप्रतिपत्तिः, भेदप्रत्यक्षेण विरोधात् । भ्रान्तिप्रतिपत्तिस्तु तंतो भवत्येव तदविरोधिन्या एव तस्यास्ततः परिज्ञानादिति चेत् ; न ; प्रत्यक्षस्य विधिमात्रविषयत्वेन भेदगोचरत्वानुपपत्तेः । "व्यवच्छेदनिष्ठो हि भेदः, व्यवच्छेदश्च न विधि - १५ परस्य प्रत्यक्षस्य विषयः ; तत्कथं तेन भेदग्रहणम् ? व्यवच्छेद परत्वमप्यस्त्येव प्रत्यक्षस्य तदयमदोष इति चेत्; न; युगपत्तदसम्भवात् । न हि किञ्चित्क्वचिद् विदधदेव प्रत्यक्षं तदेव तत्र तद्व्यवच्छेत्तुमर्हति निष्पर्यायकमेकत्र विधिव्यवच्छेदयोरप्रतिपत्तेः । पर्यायेण तस्य तत्परत्वमिति चेत् ; विधिपूर्वस्तर्हि व्यवच्छेदो वक्तव्यो विहितस्यैव 'अयमत्र नास्ति नासावयम्' इति व्यवच्छेदप्रतिपत्तेः । उक्तञ्च -
१
"लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य सम्भवः ||" [ ब्रह्मसि० २२] इति ।
भवत्वेवमिति चेत्; "न; एकव्यापारत्वेन क्रमवत्त्वानुपपत्तेः । प्रत्यक्षं हि ज्ञानं क्षणिकम्, व्यापारौ विधिव्यवच्छेदौ क्रमवन्तौ भवेताम् क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तद्व्यापारः
५
,
"
स्यात् । अपि च, जन्मैव बुद्धेर्व्यापारोऽर्थावग्रहरूपायाः, सा चेदर्थविधानरूपोदया विधिरेवास्या २५ व्यापारः, न व्यवच्छेदो यौगपद्यनिषेधात् उत्पन्नायाश्चानुत्पत्तेः ।
२०
१ एवेति दर्श-आ०, ब०, प० । २ भेदस्य । ३ अद्वैतप्रत्यनीकत्वम् । ४ भेद एव । ५ भेदस्य । ६ अद्वैतप्रत्यनीकत्वम् । ७ भेदः । ८ प्रत्यक्षे । ९ आगमात् । १० व्यवच्छेद रूपो हि । ११ प्रत्यक्षेण ! १२ युगपत् । १३ प्रत्यक्षस्य । १४ - पत्तिः आ०, ब०, प० । १४ " न खल्वेकप्रमाणज्ञानव्यापारी सन्तो विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात् क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तव्यापारः स्यात्, व्यवधानात् । अपि च जन्मैव बुद्धेर्व्यापारी अर्थावग्रहरूपायाः; सा चेदर्थविधानरूपोदया, विधिरेवास्या व्यापारः यौगपद्यस्य निषेधात् उत्पन्नायाश्च पुनरनुत्पत्तेः ।" - ब्रह्मसि० पृ० ४५ ।
;
ર