________________
५
न्यायविनिश्चयविवरणे
[ २२७९
विज्ञप्तिर्बुद्धिः वितथोऽसत्य आकारः प्रतिभासो यस्यां सा वितथाकारा । ततः किम् ? वस्तु कार्यक्षमं किञ्चन चेतनमचेतनं वा न भासते न प्रतिभासते न सम्यगवगतिमुपसर्पति, तस्या एवाभावात् यदि चेत्; अत्रोत्तरम् - केवलं प्रमाणसहायरहितं विज्ञप्ति - वितथाकारेति ततञ्चासिद्धम् ।
३४४
3
न हि प्रमाणसम्बन्धशून्यस्यास्तित्वनिर्णयः ।
बुद्धेरविभ्रमस्यैव विभ्रमस्योपपद्यते ॥ ८७१ ॥
"
केदैतत् ? केवलं नो चेत् न यदि सिद्धान्त एव विषमो दुष्परिहरो ग्रहः सिद्धान्तविषमग्रहः, तदा तत्केवलम् यदा तु स विद्यते न तदा तद्रहस्यैव " भिक्षवोऽहमपि ] इत्यादेस्तत्र प्रमाणत्वात् । भवतु तत एव निर्णय इति चेत ; १० न ; ततोऽपि विभ्रमरूपात्तदयोगात् अन्यथा तादृशादेव प्रतिसिद्धान्तादपि तद्विषयस्य तत्प्रसङ्गात् । तदेवाह -
मायोपमः" [
अनादिनिधनं तत्त्वमलमेकमलं परैः ॥७८॥ सम्प्रीतिपरितापादिभेदात्तत्किं द्वयात्मकम् । इति ।
तत्त्वं ब्रह्मरूपम्, अलं समर्थ पुरुषार्थाय " तरति शोकमात्मवित्" [छान्दो० १५ ७ १ ३] इत्यादिना तद्वेदनस्य शोकनिरस्तर ( निस्तर ) णकारणतया श्रवणात् । कीदृशम् ? अनादिनिधनम् अविद्यमानपूर्वापरपर्यवसानम् । “ तदेतत् ब्रह्मापूर्वमनपरमनन्तर मत्राह्यम्” [दा० २/५/१९] इति वचनात् । एकम् असहायम् "एक एवायमद्वितीयः " [म०त्रा० २।४] इति श्रुतेः अलं पर्याप्तं परैः बहिरन्तश्च भेदैः । श्रूयत एव केवलं तादृशं तत्त्वं न कदाचिदपि प्रत्यवभासत इति चेत्; न; विभ्रममात्रेऽपि समानत्वात् तत्प्रतिभासनस्यापि निरूपितत्वात् । २० प्रत्युत प्रतिभासत एव ब्रह्मतत्त्वं सकलभेदानुयायिनः प्रतिभासमात्रस्योपलम्भात्, तस्यैव च ब्रह्मत्वेन तद्वादिभिर्व्या वर्णनात् । कथं तदद्वितीयं भेदस्यापि प्रतिभासनात् । सति तस्मिन् द्वयरूपताया एवोपपत्तेः ? तदाह - तत् अद्वयं किम् ? नैवें, किं तर्हि स्यात् ? द्वयात्मकम् उभयरूपं तत्त्वं भवेत् । कुतः ? इत्याह सम्प्रीतिः सुखं परितापो दुःखं तावादी येषां भयशोकनीलधवलादीनां तेषां सम्प्रीतिपरितापादीनां भेदात् नानात्वात् तस्य अद्वयतत्वे अत्य २५ न्तमसम्भवादिति भावः ।
एवं पातनिकायां प्रतिविधानमाह
ग्राह्यग्राहकवद्भान्तिस्तत्र किन्नानुषज्यते ॥ ७९ ॥ इति ।
तत्र तेषु सम्प्रीत्यादिषु भ्रान्तिर्मिध्यावभासनं किं कस्मात् नानुषज्यते न प्रसज्यते
१ तदेतत् आ०, ब०, प० । २ दुष्परिहारो आ०, ब०, प० । ३ तग्रहणस्यैव आ०, ब०, प० ।
४ निर्णयप्रसङ्गात् । ५ नैवं आ०, ब०, प०, स० । ६ अद्वयत्वे आ०, ब०, प० ।