________________
११७८]
प्रथमः प्रत्यक्षप्रस्ताव अध्यक्षे तद्विवेके च ग्राह्याकारगतिः कथम् । अविभागोऽपि बुद्ध्यात्मेत्यादि' सूक्तं यतो भवेत् ।।८६३॥ परोक्षात्तद्विवेकाच्च सत्त्वादेरप्यभेदिनः । परोक्षभाव एव स्यात्तत्स्वरूपवदासा ॥८६४॥ ततश्चैतन्यगन्धस्याप्यभावस्तस्य चाश्रये । त्वमपूर्वोऽसि चार्वाकश्चिन्मात्रस्यापि लोपनात् ॥८६५॥ नायं प्रसङ्ग एकान्ताभेदस्याभावतो यदि । अयमेव परत्रापि समाधिः किन्न मृष्यते ॥८६६॥ कथञ्चिदेवाभेदोऽयं पूर्वापरविवर्त्तयोः । वर्तमानाद्यतो लोकस्तथैव परिपश्यति ॥८६७॥ लोकदृष्टिमनादृत्य यद्गत्यन्तरकल्पनम् । तद्वन्ध्यासुतसौन्दर्यकल्पनैकोदरोद्भवम् ।।८६८॥ अप्राप्तानुभवास्वादं स्वबुद्धिपरिकल्पितम् । मानं चेत्क्वचिदिष्टेऽर्थे किन्न कस्येह सिद्ध्यति ? ॥८६९॥ तस्माल्लोकदृशा मानं तया च स्वपरं जगत् ।
सर्व भेदेतरात्मैवासाङ्कर्येण प्रतीयते ।।८७०॥ तदेवाह
भेदाभेदव्यवस्थैवं प्रतीता लोकचक्षुषः । इति ।
सुबोधम् । ततो यदुक्तम्-'कुतो विषान्मरणमिति परिज्ञानम् ? न तावद्विषज्ञानात् इत्यादि ; तत्प्रतिविहितम् ; विषज्ञानस्यैव कथञ्चिन्मरणमाहितया परिवर्तनात् , तेनैव विष-२० मरणयोर्हे तुफलमावस्यापि सुबोधत्वात् । ततः सूक्तम्-‘बाह्यमेव विषं ततो मरणान्यथानुपपत्तेः' इति ।
ने किञ्चिच्चेतनात्मकं वस्तु यतः 'सम्भवक्रमाभ्यामनेकान्तात्मनो बहिर्भावहेतुफलभावादेः परिज्ञानम् , तत्परिज्ञानोपायाभावात् । विज्ञप्तिः स्वसंवेदनात्मिका तदुपाय इति चेत् ; न ; तस्या बहिरिवान्तरपि विभ्रमत्वात् । न हि विभ्रमाद्वस्तुपरिज्ञानम् अतिप्रसङ्गादिति चेत् ; २५ एतदेवाशक्य परिहरनाह
विज्ञप्तिर्वितथाकारा यदि वस्तु न किश्चन ॥७॥ भासते केवलं नो चेत्सिद्धान्तविषमग्रहः । इति ।
१प्रवा० २१३५४ । २ भेदनः मा०, ब०,०। ३ ततश्चेदन्यगन्ध-मा०, २०, प.. -लस्य भाव-आ., ब०, प. ५ "सर्वेविभ्रमवादी प्राह"-ता.टि. योगपथ। वित्ति: खमा०,०,प.।