________________
३४२ भ्यायविनिश्चयविवरणे
[९७६ इत्याह-तथा तेन तादृशात्मना हेतोः खकारणात् समुद्भूतं समुत्पन्नं यत इति । इदमत्र तात्पर्यम्
अनेकान्तभयाज्ज्ञानं विभ्रमाविभ्रमात्मकम् । मुञ्चतोऽप्यपरित्याज्यं तत्प्रत्यक्षतरात्मकम् ॥८५५॥ विरुद्धधर्माध्यासेऽपि कथञ्चित्तद्यथा मतम् । एकं तद्वत्क्रमेणापि किमेकं नोपगम्यते ? ॥८५६॥ दृष्टान्तः प्राच्य एवान्यो' नेति नास्माकमाग्रहः । फलं हि केनाप्यस्माकमुपायेनाभिवाञ्छितम् ॥८५७॥ यदि प्राच्यः प्रसिद्धस्ते तेन नः साध्यनिश्चयः । परश्चेद्भवतः सिद्धस्तेन नः साध्यनिश्चयः ॥८५८॥ न च तद्वितयत्यागे निर्विवादं मतान्तरम् ।
यत्र ते भवति प्रज्ञाऽनेकान्तर्भयवर्जिता ॥८५९॥ इति ।
वर्तमानपर्यायादभेदे पूर्वापरयोः ; तयोरपि वर्तमानत्वमेव तेदभेदात् तत्स्वरूपवविति तन्मात्रमेवावशिष्यते, तस्य चानभ्युपगमात् कथन्न नैरात्म्यवादः ? कथं वा तत्प्रत्यक्षत्वे तयो. १५ रपि न प्रत्यक्षत्वं यतस्तत्र प्रमाणान्तरप्रवृत्तिः फलवती भवेत् ? तथापि तत्परोक्षत्वे न सन्तान
भेदः सन्तानान्तराणामपि तदनन्तराणामेव तद्वत् परोक्षत्वोपपत्तेरिति कथन्नैकात्मवाद इति चेत् ? अत्राह
सबैकत्वप्रसङ्गादियोषोऽप्येष समो न किम् ॥७६॥ इति ।
सर्वेषां पूर्वापरपर्यायाणाम् एकत्वं वर्तमानादभेदस्तस्य प्रसः स आदिर्यस्य २० नैरात्म्यवादसन्तानभेदाभावादेः स चासौ दोषश्च न केवलमन्य एष त्वयोच्यमानः समः ___सदृशो न किं सम एव भवेत् । 'संवेदनेऽपि' इति शेषः ।
तथा हि
अभ्रमाच्चेदमिन्नः स्यात् भ्रमः सोऽप्यभ्रमो भवेत् । भ्रमाभावे कथं सूक्तं 'शास्त्रं मोहनिवर्तनम् ॥८६०॥ भ्रमादप्यभ्रमाभेदे भ्रम एवावशिष्यते । अविभ्रमव्यपोहे च कुतः किमवगम्यताम् ? ॥८६१॥ अध्यक्षादपि सत्त्वादेोद्याकारच्यवो यदि । अभिन्नोऽध्यक्ष एवायमपि तत्त्वात्तदात्मवत् ॥८६२॥
१ एक प्रत्यक्षतरात्मकमिति । २ -कान्ते भय-आ०, ब०, प० । ३ वर्तमानाऽभेदात् वर्तमानस्वरूपवत् । . वर्तमानमात्रमेव । ५ वर्तमानप्रत्यक्षत्वे। ६ पूर्वापरयोः। . प्रत्यक्षत्वेऽपि। ८ तदर्या-मा०, ०, ०। ९ पूर्वापरवत् । १. प्र.वा.१७॥