________________
११७६ ] प्रथमः प्रत्यक्षप्रस्ताव
३४१ स्वरूपे । तादृशमपि तदद्वयं कुत इति चेत् ? अवभासते यत इति । न हि प्रतिभासमानमन्यथाकल्पनमर्हति, अतिप्रसङ्गादित्येवमंक्रमानेकान्ते परेण निरूपिते सत्याह
इतरत्र विरोधः क एक एव स्वहेतुतः ॥७॥
तथा चेत्स्वपरात्मानौ सदसन्तौ समश्नुते । इति ।
इतरत्र क्रमानेकान्ते, कः न कश्चिद् विरोधः । कदाचिद्यदि समश्नुते सम्यक् ५ बुद्ध्यन्तरपरिहारेणाश्नुते व्याप्नोति । कः ? एक एव बोधात्मा न द्वौ । को ? सदसन्तो सन् वर्तमानो विषप्राही पर्यायः, असन् अनागतो मरणग्राही तौ । कीदृशौ ? स्वपरात्मानौ स्वात्मानौ स्वस्वभावौ कथञ्चित्तयोस्तस्मादव्यतिरेकात् , परात्मानौ च कथञ्चिद्विपर्ययात् । कुतः पुनरित्थम्भाव इत्याह-स्वहेतुतः स्वकारणादिति ।
अपरापरपर्यायव्यापी बोधः स्वहेतुतः ।
तादृशादुपजातो यन्न विरोधेन दुष्यति ।। ८५२॥ तत्रोपपत्तिमाह-'तथा' इति । तेन प्रतिभासनप्रकारेणेति । तथा हि
यथैक एव बोधात्मा विभ्रमाविभ्रमात्मकः । निर्बाधप्रतिभासत्वाद्युगपत्परिकल्प्यते ॥८५३॥ क्रमेणापि तथा किन्न परापरविवर्तभूः ।
बोधात्मैकः प्रकल्प्येत निर्भासादनुपप्लवात् ॥८५४॥ न विभ्रमः संवेदनस्य स्वभावः तद्विवेकस्यैव तत्स्वभावत्वात् । न चैतावता तत्र निर्विवाद तद्विवेकस्य "सतोऽप्याबोधिमार्गमनवभासनात् , सञ्चेतनादिस्वभावतयैव तस्य प्रत्यवलोकनात् । तन्न विभ्रमेतराकारतयोभयाकारं संवेदनं यत्तदवष्टम्भेन क्रमानेकान्तव्यवस्थापनमिति चेत् ? अत्राह
तत्प्रत्यक्षपरोक्षाक्षक्षममात्मसमात्मनोः ॥७॥
तथा हेतुसमुद्भूतमेकं किन्नोपगम्यते । इति ।
तत् संवेदनम् उपगम्यते सौगतैः । कीदृशम् ? प्रत्यक्षः सदादि परोक्षो विभ्रमविवेकस्तयोः अक्षणं व्यापनम् अक्षः तं क्षमत इति क्षमं तदात्मकम् । पुनरपि तद्विशेषणम् आत्मानम् सजातीयाद्विजातीयाच्च स्यति व्यावर्त्तयति इति आत्मसम् , निरंशक्ष. २५ णिकरूपमिति । तस्योपगमने किम् ? इत्याह-'एकम्' इत्यादि । 'तद्' इत्यनुवर्तनीयम् । तत् संवेदनं किन्नोपगम्यते उपगम्यत एव । कीदृशम् ? एकमभिन्नम् । कयोः ? मात्मनोः क्रमस्वभावयोः । अक्रमस्वभावयोः एकस्य परेणैवोपगमात् । कुतस्तत्तादृशम् ?
-व प्रक्र-आ०, ब०, ५० । २ तेन प्र-आ०, ब०, १० । ३ यत्रैक मा०, ब०, प० । विभ्रमविवेकस्यैव । ५सतोऽप्यवाधि-आ.ब.प.।६-ते सौ-आ.ब.प..-योःकस्य परे-बा०,००।
२०