________________
३४० न्यायविनिश्चयविवरणे
[१७७ तदेवाह-'आत्मनि भ्रान्त्यसिद्धितः' इति । ज्ञानानामन्वय आत्मा तत्र भ्रान्तेरसिद्वितो निर्बाधप्रतिपत्तेरेव सिद्धितो विपर्यासोऽपि किन्नेष्ट इति । अवश्यश्चैतदेवमभ्युपगन्तव्यम् , अन्यथा तत्र प्रवृत्तेरिव तदभावस्याप्यपरामर्शप्रसङ्गात् । न यतद्विषयं तत्रात्मनः प्रवृत्त्यभावं पराम्रष्टुमर्हति । मा भूदुभयथापि परामर्शः तदुपायस्यान्वयस्यैव दुरवबो५ धत्वादिति चेत् ; कस्येदानीं सुखावबोधत्वम् , अद्वयवेदनस्यैव, “खरूपस्य खतो गतेः" [प्र०वा० ११६] इति चेत् ; न ; तस्यापि यथाकल्पनमप्रतिभासनात् । न हि यथा तत् परैः परिकल्प्यते व्यपगलितसकलकल्पनाजालकल्माष तथा तस्य प्रतिभासनमस्ति, ग्राह्यादिभेदकल्पनाकलुषीकृतवपुष एव प्रत्यवलोकनात् । अन्यैव तत्कल्पनेति चेत् ; न ; अद्वैतक्षतेः,
अन्यत्वस्यानवलोकनाच्च । विभ्रमात्तदनवलोकनमिति चेत् ; कस्य विभ्रमः ? तत्कल्पनाया १० एवेति चेत् ; यदि नाम तस्या विभ्रमः किमद्वैतस्यागतं यतस्तत् यथापरिकल्पनमेव आत्मानं नोपदर्शयति ?
उन्मत्तो यदि नामैको लोष्टं पश्यति हेमवत् । अनुन्मत्तोऽपि लोकः किं तथा तत्प्रतिवीक्षते ? ॥८४५॥ यथाकल्पनमस्त्येव स्वतस्तस्योपदर्शनम् । बलिना तद्विकल्पेन छादान्निश्चीयते न चेत् ; ॥८४६॥ दर्शनानिर्विवादं चेत् का दोषो निश्चयादृते । निर्विवादं ततश्चेन्न तदृष्टं वः स्वतः कथम् ? ॥८४७॥ तदेव तेन दृष्टं यत् विवादायेनमुच्यते । सविवादं च दृष्टं चेत्येतन्नातिप्रसञ्जनात् ॥८४८॥ तत्कल्पनायां न भ्रान्तिरद्वैतस्यैव तद्यतः । निर्भेदं भेदवत्त्वेन स्वरूपं पश्यतीति चेत् ॥८४९॥ तन्नैवं तत्स्वरूपस्य स्वतो दृष्टेविलोपनात् । विभ्रमस्तत्त्ववित्तिश्च तत इत्यतिसाहसम् ॥८५०॥ भेद एव भ्रमस्तस्य चिदादौ नात्मनीति चेत् । विभ्रमेतररूपं तदेकं संवेदनं कथम् ॥८५१॥ तथैव प्रतिभासाञ्चेदेतदेवाह सौगतः
अद्वयं द्वयनिर्भासमात्मन्यप्यवभासते । इति ।
संवेदनं खलु अद्वयम् अभिन्नम् । कीदृशमपि ? द्वयनि समपि विभ्रमेतरो. भयाकारमपि । अपिशब्दस्य भिन्नप्रक्रमत्वात् । तस्य तादृशत्वं कस्मिन् ? आत्मनि
१-यं हि प-आ०, ब०,०। २ दुर्बोध-आ...। ३ अद्वयवेदनम् । ४-कलकल्मा -आ., ब०, प० । ५ कल्पनायाः। ६ न चित् भा.,ब०,०।.दर्शनात् । ८ विवादोऽनेन मु-प.। विवादानैवमु-आ०, ब०।९ खल्वन्वयं आ०,०, ५०।