________________
प्रथमः प्रत्यक्षप्रस्ताव:
३३९
१७३]
सन्देहेन लक्षणं सन्देहलक्षणं यथोक्तस्य बहिरर्थात्मनः तस्याभावात् , निश्चये. नैव तल्लक्षणस्य भावात् प्रसिद्ध इति ।
विषरूपे हि 'बाह्यार्थे मरणं प्रति धावति । सन्देहो नास्ति लोकस्य निश्चयस्यैव दर्शनात् ॥८३८॥ अस्त्वयं निश्चयः किन्नु प्रमाणान्नैष साधकात् ।। उक्तनीत्या प्रमाणस्य तत्राभावनिरूपणात् ॥ ८३९॥ अनादिवासनोल्लासरूपाव्यामोहतः परम् ।
ईदृशो निश्चयः पुंसां न्यायाघातक्रियाक्षमः ॥८४०॥ तदाह-'मोहश्चेद्यवसायकृत्' इति । तत्रोत्तरम् 'बाघकासिद्धेः' इति । वक्ष्यमाणमत्र 'कथम्' इति सम्बन्धनीयम् । बाधकम् उक्तविषयस्य प्रमाणस्य निषेधकम् , तस्यासिद्धः १० कारणात् । कथम् ? न कथञ्चित् , मोहो व्यवसायकृत् इति ।
प्रमाणस्य निषेधश्चेद्विषतत्कार्यवेदिनः । कुतश्चिन्निश्वंयस्तादृक् व्यामोहादिति युक्तिमत् ।। ८४१॥ न चैवं बाधकस्यैवाप्रसिद्धेर्ननु चोदितः। विचारो बाधकश्चेत् प्राक् कुतस्तस्यापि सम्भवः ॥८४२॥ व्यामोहाच्चेत् कथं तेन तनिषेधस्य साधनम् । निश्चयादपि तादृक्षादुक्तसिद्धिप्रसञ्जनात् ॥८४३॥ प्रत्यक्षाच्चेन्न तत्रैवं परामृष्टेरसम्भवात् । विकल्पात्मा परामृष्टि विकल्प हि युज्यते ॥८४४॥
तदाह-स्पष्टाभात् प्रत्यक्षात्। कथम् ? न कश्चित् । एष पूर्वोक्तो विचारात्मा निश्चय २० इति।
यदि च विषप्रत्यक्षमेवात्मनो मरणे तत्प्रत्यक्षमेव वा विषे प्रवृत्त्यभावं परामृशति तद्भावमेव किन्न परामृशति विशेषाभावात् । एतदेवाह
'विपर्यासोऽपि किन्नेष्टः' [आत्मनि भ्रान्त्यसिद्धितः] ॥७३॥ इति ।
कथं पुनरतद्विषयस्य तत्परामर्शित्वमिति चेत् ? कथमतद्विषयत्वम् ? अतत्का- २५ लत्वादिति चेत् ; न ; तत्कालेऽपि तस्य कश्चिदन्वयात् अन्यस्यापि प्रतिपत्तेः । वक्ष्यति चैतत्'भेवज्ञानात्' इत्यादिना।
भ्रान्तिरेव तत्प्रतिपत्तिरिति चेत ; न ; बाधकाभावात् । न भेदज्ञानं बाधकम् ; तस्यैवात्यन्तभेदविषयस्याप्रतिभासनात् । कथश्चिद्भेदविषयस्य तु न बाधकत्वम् ; अविरोधात् ।
यादच।
बाह्येऽर्थे भा०,40, प० । २ तथाह मा०, ब०,१०।३-कल्पो हि मा०, ब०, प० । ४ मरणप्रत्यक्षमेव । ५ "तर्हि"-ता०टि।