________________
३३८
न्यायविनिश्चयविवरण
[११७३ न हि नैव जातु कदाचिदपि विषज्ञानं विषाकारं वेदनं मरणं प्रति धावति कारणत्वेनोपसर्पति सर्वस्यापि तज्ज्ञानवतो मरणप्रसङ्गात् । न चैवम् , नियतस्यैव तद्दर्शनात् । न रूपमात्रविषज्ञानं येनायं प्रसङ्गः किन्तु रसविशेषज्ञानमेव । न चेदं सर्वस्यास्ति ; यस्य त्वस्ति तस्य भवत्येव मरणमिति चेत् ; कुतोऽस्यास्तित्वम् ? तद्वासनात इति चेत् ; न ; ५ तस्या अपि सर्वत्र भावात् । तत्प्रबोधादिति चेत् ; न ; *तस्यापि स्वरसतो भावे नियमा. योगात् । अन्यतः प्रबोधकादिति चेत् ; तदपि यदि वासनान्तरम् , स एव प्रसङ्गः, तस्यापि सर्वत्र भावात् । तत्प्रबोधस्यापि तदन्तरापेक्षायाम् अनवस्थादोषात् । ततो न विषज्ञानान्मरणमिति सूक्तम्-'न हि' इत्यादि।
___ कदैतत् ? इत्याह-असन् अविद्यमानः चेत् यदि बहिरर्थात्मा बहिरर्थस्वभावो १० विषाख्य इति शेषः । सति तु बहिरर्थात्मनि विषतदास्वादनादेर्भवति मरणमिति यावत् । तदयं प्रयोगः-बहिरर्थरूपमेव विषं ततो मरणस्यान्यथानुपपत्तेः।।
कुतः पुनर्विषान्मरणमिति परिज्ञानम् ? न तावद्विषज्ञानात् ; तस्य "मरणे भाविन्यप्रवृत्तः । न हि तदानीमविद्यमानं तत्र प्रवृत्तिमदुपपन्नम् । नापि मरणज्ञानात् ; तस्यापि
प्रागसतो विषविषयत्वानुपपत्तेः । न चोभयसमयव्यापकमेकज्ञानं सम्भवति ; तस्यापि स्वतः १५ पूर्वसमयव्यापिना रूपेणोत्तरसमयव्यापिनः तेन च पूर्वसमयव्यापिनः परिज्ञानाभावे रूपद्वयाधिष्ठानतया दुरवगमत्वात् । "अन्यतस्तदवगम इति चेत् ; न ; तत्राप्येकसमये समयद्वयवति च पूर्ववदोषात् । पुनस्तदन्यपरिकल्पनायाम् अनवस्थानात् । न च विषमरणयोरपरिज्ञाने "सुपरि. बोधस्तद्गतो हेतुफलभावः, इत्यसिद्धमेतत्-'विषान्मरणम्' इति यदन्यथानुपपत्त्या बहिरर्थविष. साधनमिति चेत् ; अत्राह-प्रसिद्धः प्रमाणनिश्चितो बहिरर्थात्मा। 'कीदृशः' इत्यपेक्षायां 'मरणं प्रति धावन्' इति प्रत्ययपरिणामेन सम्बन्धः। तत्र हेतुः-अप्रतिषेधकः न विद्यते प्रतिषेधको यस्येत्यप्रतिषेधको यतस्ततः प्रसिद्ध इति । यदप्रतिषेधकं तत्प्रसिद्धं यथा परस्य संविदद्वैतम् , अप्रतिषेधकश्च बहिरर्थात्मा उक्तविशेषण इति ।
ननु यथा तस्य न प्रतिषेधकं तथा न साधकमपि ततः साधक-बाधकप्रमाणाभावात्सन्देह एव । न च सन्दिग्धस्य प्रसिद्धत्वमिति चेत् ; अत्राह
सन्देहलक्षणाभावान्मोहश्चेव्यवसायकृत् ॥७२॥ "बाधकासिद्धेः "स्पष्टाभात्कथमेष विनिश्चयः । इति ।
१ -चिद्वि-आ०,०प० । २ विषरसज्ञानम् । ३ यस्यास्ति आ०, ब०, प० । ४ वासनाप्रबोधस्य । ५ वासनान्तरापेक्षायाम् । ६ विज्ञाना-आ०, ५०,५०। ७ इति तु शेषः भा०, ब०, ५०। ८ -नि विशेष-आ०, ब०प० । ९ सौगतः प्राह । १०-ज्ञानान आ०, ब०,० "मरणभा-आ०,०प०।१२-मेव ज्ञानम् भा०, ब०, ५०।१३ उत्तरसमयव्यापिना रूपेण । १४ अन्यज्ञानात् 'विषान्मरणम्' इति ज्ञानम् । १५ "उपहासवचनमेतत्"-ता. टि.। १६ “पञ्चमं लघु सर्वत्र' इति नियमस्याभावादेवम्प्रयोगः। स्वामिमिरपि देवागम. स्तोने तथा प्रयुक्तम् । अवाच्यतैकान्तेऽप्युक्तिरिति ।"-ता. टि.। १७ स्पष्टाभावात् मा०,.,प० ।