________________
प्रथमः प्रत्यक्षप्रस्ताव:
१२]
३३७ किञ्चिद्विकल्पैदैवसिद्धत्वात् 'तत्प्रतिबन्धस्य। कारणस्यैव सामर्थ्य तैः प्रतिरुध्यत इति चेत् ; न ; असतः प्रतिरोधासम्भवात् । स्वहेतुबलोपनीतत्वेन सत एवेति चेत् ; न ; तस्याप्युत्पत्त्यवस्थायां तदयोगात् , अन्यथा तदुत्पत्तेरेव प्रतिरोधप्रसङ्गात् । न चेदमुचितम् , सति "समर्थे कारणे तत्प्रतिरोधस्याप्यनुपपत्तेः। तत्रापि कारणस्यैव सामर्थ्य' तैः प्रतिरुध्यत इति चेत् ;न; 'असतः' इत्याद्यनुबन्धादव्यवस्थानुषङ्गाच्च । पश्चात्तत्प्रतिरोध इति चेत् ; न; ५ तदा तस्य स्वयमेव नाशात् , विकल्पानां मृतमारणत्वापत्तेः । समर्थमपि कारणं विकल्पाभावे सत्येव समारोपमुपजनयति न पुनस्तद्भावे तादृशत्वात्तत्सामर्थ्यस्येति चेत् ; नैवम् , नित्यस्याप्यनिषेधप्रसङ्गात् । तदपि हि सत्येव सहकारिणि कार्यकारि न तदभावे तच्छक्तेरपि ताहशत्वात् , सहकारिणा तदनुपकारस्यान्यत्रापि समानत्वात् । ततो नैवं "तैस्तदुत्पत्ति. प्रतिबन्धः।
स्यान्मतिरेषा भवतः-विकल्पसहायः समारोपक्षणस्तदुत्तरक्षणमसमर्थ जनयति सोऽप्यसमर्थतरमसमर्थतमं च सोऽपि, ततश्च कार्यानुत्पत्तिरित्येवं प्रकारः, "तैस्तदुत्पत्तिप्रतिवन्ध इति ; साऽपि न ज्यायसी ; यस्मात्तत्क्षणस्यं समर्थस्यैवोत्तरक्षणस्य जनने यदि शक्तिः कथं 'विकल्पसाहाय्येऽपि "अन्यथा तजननम् ?"अथासमर्थस्यैव ; तथापि किं विकल्पैस्तत एव तदुत्पत्तेः ? कथं वा तदन्यक्षणस्य वस्तुत्वम् , सजातीयमतन्वतस्तदयोगात् ? १५ विजातीयतननादिति चेत् ; न ; अशक्तौ तस्याप्ययोगात्। शक्ताविति चेत् ; न ; सजातीयस्यापि तत्प्रसङ्गात् । अशक्तिरेव "तत्रेति चेत् ; न; शक्ताशक्ततया "तद्भेदापत्तेः । विजातीयतनने शक्तिरेवेतरत्राशक्तिरिति चेत् ; न ; "इतरस्यापि विषयः तन्न प्रसङ्गात् (इतरस्यापि तननप्रसङ्गात्) अशक्तिरिति "शक्तरेवाभिधानात् । भवत्यपि शक्तिस्तन्न तनोतीति चेत् ; विजातीयमपि न तनुयात् अविशेषात् इत्यवस्तुत्वमेव तस्य । भवत्विति चेत् ; कथं तस्य कुतश्चिदु- २० त्पत्तिः अवस्तुनस्तदयोगात् व्योमारविन्दवदिति ? तद्धतोरप्यवस्तुत्वमजनकत्वात् , एवं तद्धेतोरपीति सर्वस्यापि तत्प्रबन्धस्यावस्तुत्वमापतितम् । ततः समारोपस्यैवाभावान्न तब्यवच्छेदेनापि विकल्पानां साफल्यमतो वस्तुविषयत्वेनैव तदुपपत्तिः ।।
____एवं विकल्पानामर्थक्रियाकारविषयत्वव्यवस्थापनेन बहिरर्थमवस्थाप्य प्रकारान्तरे. णापि तमवस्थापयन्नाह
न हि जातु विषज्ञानं मरणं प्रति धावति ॥७१॥ असंश्चेद्वहिरीत्मा प्रसिद्धोऽप्रतिषेधकः । इति ।
१ तत्त्वज्ञानप्रतिबन्धस्य ।। विकल्पैः। ३ प्रतिरोधायोगात् । ४ समर्थका-आ०,ब०.१०।५ नैव तै-ता। २ विकल्पैः। ६ समारोपलक्ष-भा०,०,५०।७ विकल्पैः । ८ समारोपक्षणस्य । ९ विकल्पसाहाय्यस्यान्य-आ०, ब.प. असमर्थक्षण ननम् । ११ अथासामर्थ्यस्यै-आ०,०,५० । १२ तत एतद्ध-मा०,०,०। अस. मार्थसमारोपक्षणादेव । १३-यतानना-बा०, ब०, प० । १४. सजातीयोत्पत्तौ । १५ समारोपक्षणे भेदः स्यात् । ११ सजातीयेऽशक्तिः । १७ सजातीयस्यापि । १८ शक्तिरेवा-आ०,०प० । १९ समारोपक्षणस्य ।