________________
३३६ न्यायविनिश्चयविवरणे
[९७१ त्वेन विशेषाभावादिति निरूपितत्वात् । विशेषे वा तद्वत् बाह्यविकल्पस्यापि स्वप्नविकल्पात्तदुपपत्तौ नार्थक्रियाकारविषयत्वं तस्य न स्यात् । न विचारविकल्पैरप्यद्वैतादेर्ग्रहणं येनायं दोषः । न चैतावता वैफल्यमेव तेषाम् ; समारोपव्यवच्छेदेन फलेन फलवत्त्वात् । तदेवाह
समारोपव्यवच्छेदः साध्यश्चेत्सविकल्पकैः ॥७०॥ इति । ५ सुबोधमेतत् । अत्रोत्तरमाह
नैषापि” कल्पना साम्यादोषाणामनिवृत्तितः । इति । एषापि अनन्तर्रापि कल्पना न । कुत एतत् ? साम्यात् पूर्वन्यायस्यात्रापि सदृशत्वात् । तथा हि-यथा तैः "स्वांशमात्रावलम्बिभिर्न द्वतादेः परिच्छेदस्तथा तब्यवच्छेदोऽपि । न ह्मपरि
झाते तस्मिन् तद्गतविपरीतारोपनिवर्तनम् । परिज्ञात एव मरीचिकादौ तद्गतजलाधारोपनिवर्तन१० स्योपलम्भात्। हेत्वन्तरमाह-दोषाणाम् अनुक्तानामपि उक्तानां साम्यात् इत्यनेन गतत्वात अनिवृत्तितो निवर्त्तनाभावात् । तथा हि
कोऽयं समारोपस्य व्यवच्छेदो नाम ? "तत्त्वज्ञापनमिति चेत् ; किं "तस्य तत्त्वम् ? अतस्मिन् "तगृहत्वमिति चेत् ; न ; तस्य तत्स्वसंवेदनादेव परिज्ञानात् । तस्य निर्विक
ल्पत्वात्तदपरिज्ञातमेवेति चेत् ; न ; अज्ञातार्थविषयतया विकल्पानां प्रमाण्यप्रसङ्गात् । १५ तेऽपि तत्र समारोपमेव व्यवच्छिन्दन्ति न "तत्त्वं प्रतिपद्यन्त इति चेत् ; न; तत्रापि 'कोऽयम्' इत्याद्यनुबन्धादव्यवस्थापत्तेश्च । तन्न तत्त्वज्ञापनं तब्यवच्छेदः।
तन्नाश इति चेत् ; कस्तदनाशे दोषः ? तत्त्वज्ञानप्रतिबन्ध इति चेत् ; कुत "एतत्? तस्य विभ्रमत्वादिति चेत् ; न ; स्वतस्तत्परिज्ञाने तदनुपपत्त। न हि गुडे विषज्ञानं
विभ्रमरूपतया प्रतिपन्नमेव गुडतत्त्वपरिज्ञानं "प्रतिबन्धुम (बर्द्ध) र्हति । स्वतस्तत्परिज्ञानमपरि२० ज्ञानमेव निर्विकल्पत्वादिति चेत् ; कथमिदानीं तस्य तत्त्वज्ञानप्रतिबन्धित्वम् अनुपदर्शित
"स्वरूपस्य तदसम्भवादतिप्रसङ्गात् । कथं वा तन्नाशाय विकल्पान्वेषणम् ? अज्ञाते तस्मिन् तदनुपपत्त । न च "विकल्पात्तन्नाशः "तस्याऽहेतुकत्वेनाभ्युपगमात् । तन्नाशोऽपि न तब्यवच्छेदः।
___ तदुत्पत्तिप्रतिबन्ध इति चेत् ; कस्तदप्रतिबन्धे दोषः ? तत्त्वज्ञानप्रतिबन्ध इति चेत् ; १. न ; उक्तोत्तरत्वात् । कथं वा सति समर्थकारणे "तत्प्रतिबन्धः कुतश्चित् ? असमर्थे तु न
तद्बाह्यवि-आ०, २०, ५०,। -त्वं तस्यान्यान्यविचा-आ०, ब०, प० । ३ 'न' इति निरर्थक भाति । ४ विकल्पानाम् । ५ नैषा विक-भा०, ब०, प० । ६ -राविकल्प आ०, १०, प.। . सांशमात्रावसबिभिर्नव-मा०, ब०,५०।८ -मात्रधिल-ता०।९ -त्वादित्यनुवृत्ति-आ० ब०,५०।१० "समारोपत्व"ता०शि०।११ समारोपस्य । १२ तद्रहणमि-आ०,०, प० । १३ चेत्तस्य आ०, ब०,५०।१४ स्वसंवेदनस्य । १५ समारोपत्वम् । १६ समारोपनाशः। १० एव तत्तस्य आ.ब.प.। १८ प्रतिबन्धमह-आ०.., प.। १९ स्वभावस्य आ०,०, ५०।२० समारोपे। २. विकल्पस्थास्तना-मा०,०प०। २२ नाशस्य । २३ तत् तस्मात् कारणात् नाशोऽपि । २४ -पि तद्य-मा०, ब..प०। २५ तत्वज्ञान प्रतिबन्धः ।