________________
३३५
११७० ]
प्रथमः प्रत्यक्षप्रस्तावः सन्तानान्तरलिङ्गस्यासम्भवेऽपि ततः स्थितम् । विकल्पो बहिरर्थस्य वेदितेत्युदितान्नयात् ॥८३६॥
उक्तसमर्थनं दृष्टान्तमाह-विषमं स्थपुटितप्रदेशं जानातीति विषमज्ञः स' इव यद्वत् अयम् अन्यथा अन्येन समप्रकारेण । किम् ? वीक्षते । तद्वत्स्वरूपमात्रविषयोऽपि विकल्पो व्याहारादिकमपरम् । किम् ? वीक्षत इति । वाशब्दो वितर्के । 'किम्' इत्यस्यानन्तरं ५ द्रष्टव्यः । प्रयोगश्चात्र-यद्यस्मादन्यविषयं न ततस्तस्य वीक्षणं यथा विषमज्ञानात् समभावस्य 'व्याहारादेरन्यविषयश्च विकल्पः स्वरूपमात्रगोचरत्वात् तन्मात्रस्य व्याहारादेविभिन्नत्वात् । ततो न ततस्तस्य व्यभिचारोद्भावनमुपपन्नम् तदुद्भावने वा तस्य बहिर्विषयत्वमङ्गीकर्तव्य. मिति भावः।
व्याहारादेर्व्यभिचारान्न ततः सन्तानान्तरप्रतिपत्ति; तदभावाञ्च न तद्बलेनार्थक्रियाकार- १० विषयत्वपरिज्ञानम् । विकल्पस्य किमिदानीं तत्त्वं भवेत् यत्र भवतः स्थिरप्रज्ञत्वम् । सर्ववस्तुनैरात्म्यं सर्वविकल्पातीतं संविन्मानं वेति चेत् ; कुत एतत् ? तस्यैव विचारसहत्वादिति चेत्, अत्राह-'अद्वयम्' इत्यादि । 'नो' इत्यनुवर्तमान वाशब्दवत् किमः परं द्रष्टव्यम् । किं वा नो वीक्षते ? किन्तु वीक्षत एव । कः ? अयम् अद्वैतादिविचारः । कम् ? तमेव प्रसिद्धमेव । कीदृशम् १ अन्यथैव इति । प्रथमस्यैवकारस्यात्र सम्बन्धः । 'भूतम्' १५ इत्यध्याहारश्च कर्त्तव्यः । तदयमर्थः-अन्यथैव परपरिकल्पितादद्वैतादिप्रकारादन्येनैव प्रकारेण भूतमिति । तं किरूपं वीक्षते ? अद्वयम् उपलक्षणमिदम्, तेन शून्यमपीति । दृष्टान्तमाह'विषमज्ञ इव 'इति । यद्वदन्यथाभूतमेवाज्ञो जनो विषं वीक्षत इति । कुतः पुनरेतत्द्वैतमेवाद्वैतम् अशून्यमेव शून्यं तद्विचारो वीक्षते' द्वैतादेरेवाविद्यमानत्वात् अविद्यमानस्य चान्यथा वीक्षणायोगादिति चेत् ; न; तस्य प्रमाणविषयतया विद्यमानत्वात् । तदाह – 'परचि. २० त्ताधिप्रतिप्रत्ययम्' इति । परं प्रकृष्टमविचलितत्वेन चित्तं ज्ञानं यस्य सः परचित्तः निर्बाधप्रतिपत्तिक इत्यर्थः । अधिपत्यतेऽधिगम्यतेऽनयेत्यधिपतिः अधिगतिस्तस्याः प्रत्ययो विश्वासः संवादो यस्मिन्नसौ अधिपतिप्रत्ययः संवादिज्ञानविषय इत्यर्थः । परचित्तश्चासावधिपतिप्रत्ययश्चेति परचित्ताधिपतिप्रत्ययः तमिति । परचित्तपदेन "स्वप्रसिद्ध्या अधिपतिप्रत्ययपदेन "परप्रसिद्धया द्वैतादेविद्यमानत्वमावेदयति ! तथा हि
२५ अस्खलत्प्रतिभासं यत् ज्ञानं संवादवत्तथा ।
द्वैतादि तस्य संवेद्यं विद्यमानं कथं न तत् ? ॥८३७॥ ततो नातादेविचारादवस्थापनम् ,"आत्मादिविचारवत्तद्विचारस्यापि विपर्यासरूप.
१ सय द्वयम-आ०, ब०, प०,२ व्यवहारादे-आ०,०, ५०, स०।३ व्याहारादेः। ४ विक. ल्पस्य । ५ विकल्पस्य । -नी तत्सत्त्वं भवतः स्थितप्र-आ०, ब०, प० । ७ ६९ श्लोकतः। ८किशब्दात् । ९ ते तदद्वैता-मा०,००।१"जैन। ११ सौगत । १२ आत्मशन्देनात्र वेदान्तिभिरभ्युपगतं ब्रह्म प्राह्यम् ता. टि. अद्वैतविचारस्यापि ।