________________
३३४
न्यायविनिश्वयविवरणे
अन्योन्यसंश्रयान्नो चेत् [ तत्किमज्ञानमेव तत् । ] इति ।
उक्तरूपात् परस्पराश्रयात् नो चेत् न यदि सन्तानान्तर सद्भूतिरिति सम्बन्धः । ननु अयमन्यत्रापि प्रसङ्गः - पावकादौ धूमादेरपि न लिङ्गत्वम् गोपालकलशादौ तदभावेऽपि ' भावात् । तद्विशेषस्य' तत्त्वमित्यपि न सुन्दरम् ; पावकाद्यसिद्धौ तस्यैवापरिज्ञानात् । तत्सिद्धौ ५ तत्परिज्ञाने पूर्ववत्परस्पराश्रयात् । तद्विशेषस्य स्वसाध्यनियमलक्षणस्य धूमादिस्वरूपत्वात्, अपरिज्ञातेऽपि पावकादौ भवत्येव परिज्ञानमित्यपि न शोभनम् ; व्याहारादिविशेषस्याप्येवं परिज्ञानप्रसङ्गादिति चेत्; सत्यम्; अस्तीदं समाधानं सुबोधत्वात्, तत्र गजनिमीलनं कृत्वा समाधानान्तराभिधित्सया परं पृच्छन्नाह - 'तत्किम्' इति । तत् तस्मात् सन्तानान्तरं नो चेदित्यस्मात् किं तव सिद्धम् ? पर आह 'अज्ञानमेव तत्' इति । तद्विकल्पस्यार्थक्रि१० याकारविषयत्वम् अज्ञानम् अप्रतिपत्तिकं सन्तानान्तरसद्भाव लिङ्गस्य तज्ज्ञानस्य तलिङ्गाभावेऽसम्भवादिति भावः परस्य । तत्रोत्तरमाह-
२०
अद्वयं पर चित्ताधिपतिप्रत्ययमेव वा ॥ ६९ ॥ वीक्षते किं तमेवायं विषमज्ञ इवान्यथा । इति ।
न तावद्व्याहारादिरप्रतिपन्न एव व्यभिचारोद्भावनस्य तत्रासम्भवात् । प्रतिपत्तिरपि न निर्वि१५ कल्पात्; ततस्तस्यानिश्चयात् अनिश्चिते च व्यभिचारोद्भावनस्यासम्भवात् । नापि विकल्पात्; तस्याभ्यनुभयस्वभावत्वे तदसम्भवात् । तथा हि- तमेव प्रसिद्धमेव । कमेव ? परचित्ताधिपतिप्रत्ययं परचित्तं सन्तानान्तरज्ञानम् अधिपतिप्रत्ययो निमित्तकारणं यस्य सः परचित्ताधिपतिप्रत्ययो व्याहारादिः तमेव, 'असहायं न तद्व्यभिचारादिकम्' इत्येवकारार्थः, किम् ? इत्याह-वीक्षते प्रतिपद्यते किं नैव । कः ? अयम् अनन्तरोक्तो विकल्पः । कुत इत्याह‘अद्वयम्' इति । एवकारः प्रथमोऽत्र सम्बध्यते । द्वौ अवयवौ यस्य तद्द्द्वयं द्विरूपं वस्तु तस्मादन्यद् अद्वयं तदेव यत इति, विकल्पविशेषणमपि अद्वयमिति नपुसंकमेव, परवल्लिङ्गत्वात्तत्पुरुषस्य । तदिदमभिभिहितं भवति -
२५
[ ११७०
स्व है कस्वभावोऽयं विकल्पस्त्वन्मते स्थितः ।
व्याहारादेः कथं तेन बहिरर्थस्य वीक्षणम् ? || ८३३॥ अवीक्षणे कथं तस्य व्यभिचारः प्रकल्प्यताम् । सन्तानान्तरसद्भावज्ञानं तस्मान्न यद्भवेत् ॥ ८३४॥ तस्माद्धेतोरनेकान्ते विकल्पो दर्शयन्नयम् ।
युक्तस्तद्विषयो न स्यादन्यथा र्तंद्गतिस्ततः ॥८३५॥
१ पावकाभावेऽपि । २ पावकाविनाभाविनो धूमस्य । ३ पावकसिद्धौ । ४ विकल्पेन । ५ व्याहारादेः ।
६ व्याहारादिभ्यभिचारपरिज्ञानम् ।