________________
१४६८ प्रथमः प्रत्यक्षप्रस्ताव
३३३ एवार्थविकल्प इति चेत् ; न ; तस्याप्यस्ववेदिनोऽर्थविषयत्वासम्भवात् घटादिवत् । स्ववेदने तु ततोऽप्यन्य एवार्थविकल्पः स्यात । न चेदमुचितम् । तत्राप्येवं विचारे अनवस्थापत्तेरिति घेत् ; नै ; स्वपरविषयस्वभावभेदाधिष्ठानस्यैकस्यैव विकल्पस्य भावात् । कथमेकस्यानेक स्वभावत्वं विरोधादिति चेत् ? कथमन्तरविचारस्य अनेकपरामर्शाधिष्ठानत्वम् ? प्रति परामर्श भिन्न एव विचारोऽपीति चेत् ; किं तद्भेदकल्पनया बहिरर्थवेदनस्यैकेनैव प्रतिक्षेपसम्भवात् । ५ बहुभिरेव तत्प्रतिक्षेप इति चेत ; न; बहूनां युगपदसम्भवात् विकल्पानां तदनभ्युपगमात् । क्रमेण सम्भव इति चेत् ; न ; क्रमवतामेकत्र कार्ये व्यापारानुपपत्तेः, अन्यथा कन्याभाविवराभ्यामपि गर्भनिष्पत्तेर्न कन्या गर्भवती दूष्या भवेत् । तस्मादेक एव परामर्शभेदेपि विचारो वक्तव्यः, तथा स्वपरग्रहणस्वभावभेदेऽपि विकल्प इत्युपपन्नं तस्यार्थक्रियाकारविषयत्वम् । अवश्य चैतदेवमङ्गीकर्तव्यम् , कथमन्यथा सन्तानान्तरस्य परिज्ञानम् ? तत्राप्यस्य विचारस्याप्रति. १० रोधात् । न चापरिज्ञातस्यैव तस्य सत्त्वं नित्यादिवत् । न च तन्नास्त्येव ; विचारकरणात् । परार्थ हि तत्करणं कथं पराभावे भवेत् । संशयितेऽपि परे भवत्येव तत्करणम्-'यदि स्यात्परस्तदर्थमिदम् , न चेत् न' इति बुद्ध्येति चेत् ; न ; अनेकान्तविद्वेषे संशयस्यैवा. सम्भवात् , तस्य 'इदमित्थमन्यथा वा' इति परामर्शद्वयात्मकत्वे सत्येवोपपत्तेः । तद्वयात्मनस्तस्य॑ सम्भवे वा विकल्पेन कोऽपराधः कृतो येन स एव स्वपरवेदनस्वभावद्वयात्मा न १५ भवेदित्युपपन्नं तेने बहिरर्थस्य वेदनम् , अन्यथा "तद्वलेन सन्तानान्तरस्याप्यव्यवस्थितः ।
____ ननु यावदर्थान्तरस्यैव जलादेर्विकल्पवेद्यत्वमनुमानादुच्यते तावदनान्तरस्य कस्मान्न कथ्यते तदनुमानस्यापि भावात् ? तथा हि-जलादिस्तद्विकल्पादनान्तरम् , तद्वद्यत्वात् , तत्स्व. रूपवदिति चेत् ; न, सन्तानान्तरेण व्यभिचारात् , तस्य तद्वद्यत्वेऽपि तदर्थान्तरत्वात् । न च व्यभिचारिणो गमकत्वम् अन्यथानुपपत्तिवैकल्यात् । इदमेवाह-न पुनः नैव तद्विकल्पानान्त- २० रतया चित्तमेव न जडमिति चित्तमात्रं जलादि तस्मिन् साध्ये, न केवलं जडरूप इत्यपिशब्दः, एषोऽनन्तरोक्तो नयः न्यायोऽन्यथानुपपत्तिरूपः समः सदृशः तत्र तदभावात् ।
ननु सन्तानान्तरस्य विकल्पो न तावत्प्रत्यक्षम्; परचेतसां साक्षादप्रतिभासनात् । अनुमानमिति चेत् ; न; लिङ्गाभावात् । व्याहारादेस्तु" न लिङ्गत्वम् ; गाढमूर्छादौ तदभावेऽपि भावात् । तद्विशेषस्य तत्त्वमित्यपि न युक्तम् ; असिद्धे साध्ये तस्यैव दुरवबोधत्वात् । सिद्धे २५ तस्मिन् तद्बुद्धिरिति चेत् ; न; परस्पराश्रयात्-साध्यसिद्धया नद्विशेषस्य तत्सिद्ध्या च साध्यस्य व्यवस्थापनात् । तदेवाह
-प्यस्वसंवे-आ०, ब०, ५०, स०।२ -संवेदने-आ०, ब०, ५०, स०।३-पत्तिरिति मा०,०, १०.
स न पर-आ०, ब०, ५०, स०। ५ "कथं पुनर्विकल्पैर्जलादेग्रहणमित्यादिकस्य"-ता. टि . सन्तानान्तरस्य । ७ विचारकरणम् । ८ इदमित्यर्थमन्य-आ०, ब०, ५०, स०। ९ संशयस्य । १. विकल्पेन । ११ विकल्पबलेन । १२ व्यवहारे ब०। १३ सन्तानान्तराविनाभाविनी व्याहारादिविशेषस्य । लिमत्वम् । १५ सन्तानान्तरे साध्ये।