________________
३३२ न्यायविनिश्चयविवरणे
[२१६८ हास्पदत्वात् । आशक्यते चानेने योगिभावो यदिशब्दोपादानात् । भवतु योगिनैव तेषां दर्शनमिति चेत् ; इदमपि कस्मात् ? तेषामेव विचारक्षमत्वान्नावयव्यादीनां विपर्ययादिति चेत् ; किमिदं तेषां 'तत्क्षमत्वम् ? न तावत्तद्विषयत्वम् ; अनभ्युपगमात् । तत्प्रतिबद्ध विषयत्वमिति चेत् ; तदपि कुतः ? तेषामेव तेनं दर्शनादिति चेत ; न ; परस्पराश्रयात्५ 'तेषाम्' इत्यादिना 'तत्प्रतिबद्ध" इत्यादेस्तेन च तेषाम्' इत्यादेर्व्यवस्थापनात् । भवतु वा सति योगिनि तेन तेषामेव दर्शनम् , असति तु कथम् ?. न चैकान्तेन सन्नेवासौ यदीत्याशङ्कावचनानुपपत्तेः तस्य पाक्षिकाभावसव्यपेक्षत्वात् । तन्न किञ्चिदेतत् । ततो विचारसाफल्यमभ्युपगच्छता वक्तव्यं बहिरर्थविषयत्वं विकल्पानाम् , अन्यथोपहासास्पदत्वेन तत्साफल्यानुपपत्तेः।
प्रकारान्तरेणापि "तेषां तद्विषयत्वं दर्शयन्नाह
सन्तानान्तरसद्भूतेश्चान्यथानुपपत्तितः ॥६७॥ विकल्पोऽर्थक्रियाकारविषयत्वेन तत्परैः।
ज्ञायते न पुनश्चित्तमात्रेऽप्येष नयः समः ॥६८॥ इति ।
धर्मकीर्तेः" सन्तानादन्यस्तच्छिष्यादिसन्तानः सन्तानान्तरं तस्य सद्भतिः १५ सद्भावः । सैव कस्मादिति चेत् ? शास्त्रकरणात् । न हि "तत् स्वार्थम् ; निश्चिततदर्थत्वात् , अन्यथा
करणायोगात् । कालान्तरतन्निश्चयार्थत्वात्स्वार्थमेवेति चेत् ; न ; तन्निश्चयस्यापि पूर्वतग्निश्वयादेव भावात् । कदाचिद्विच्छिद्येतापि तत्प्रबन्ध इति चेत् ; तर्हि पर एव विच्छिन्नतत्प्रबन्ध प्रतिपत्ता तद्विपरीतत्वादिति परार्थमेव "तत्करणम् , तच्च पराभावे न सम्भवति । मा भूदिति
चेत् ; न ; उपलम्भात् । सोऽपि खप्नादिवत् भ्रम एवेति चेत् ; किमस्य वचनस्य फलम् ? २० तद्धमज्ञानमिति चेत् ; अस्ति परः, तदभावे तज्ज्ञापनानुपपत्तेः । इदमपि नास्त्येव वचनमिति
चेत् ; न ; 'उपलम्भात्' इत्यादेरनुबन्धादव्यवस्थापत्तेश्च । ततः पर्यन्ते किश्चिद्वचनं पार. मार्थिकं परार्थश्च वक्तव्यम् , तद्वच्छास्त्रं चेति सिद्धा सन्तानान्तरसद्भूतिः, तस्या अन्यथानुपपत्तितः, ज्ञायते प्रतीयते । कः ? विकल्पो व्यवसायः । केनात्मना ? अर्थकि
याकारविषयत्वेन अर्थक्रिया स्नानपानादिः तां करोतीत्यर्थक्रियाकारो जलादिः स विषयो २५ गोचरो यस्य तस्य भावस्तत्त्वं तेन । कैर्ज्ञायते ? तत्परैः सः अर्थक्रियाकारः परः प्रधानो येषां तैर्जनैः।
___ कथं पुनर्विकल्पैर्जलादेम्रहणम् ? कथं च न स्यात् ? स्वग्रहणस्वभावेन 'तंदयोगात् । परग्रहणस्वभावेनेति चेत् ; न ; स्वभावभेदे विकल्पस्यापि भेदात्मनो भेदापत्तेः। भवत्वन्य
१ प्रज्ञाकरेण । २ परमाणूनाम् । ३ परमाणूनामेव । ४ विचारक्षमत्वम् । ५ तत्प्रतिबन्धवि-आ०, ब०, ५०, स० । ६ योगिना । . -बन्ध-आ०, ब०, ५०, स०। ८ योगी । ९-ता वद वक्त-मा०, ब०, ५०।१० विकल्पानां बहिरर्थविषयत्वम् । ११ धर्मकीर्तिम्-आ०, ब०, ५०, स.। १२ शास्त्रकरणम् । १३ शामार्थनिश्चयप्रबन्धः। १४ शास्त्रकरणम् । १५ भ्रमस्य । १६ जलादिग्रहणायोगात् ।