________________
१२६६ ] प्रथमः प्रत्यक्षप्रस्ताव
३३१ . स्ववित्तिनियतैत्ति विचारैः परमाणुषु । कार्यमावरणादीति नोपहास्यमिदं कथम् ? ॥८२३॥ अन्यथा नीलविज्ञानात्तत्त्वं त्रैलोक्यगोचरम् । जन: सर्नेऽपि जानीयात् सर्वज्ञोऽपि स्फुटं भवेत् ॥८२४॥ तेषामणुषु सम्बन्धात्स्वांशमात्रविदामपि । तेभ्यस्तत्तत्त्वसंवित्तिरित्यप्यज्ञानकल्पितम् ॥८२५॥ तज्ज्ञत्वं न हि तेषां यत्तत्सम्बन्धेऽपि विद्यते । अन्यथा साध्यसम्बन्धाल्लिङ्ग साध्यज्ञतां ब्रजेत् ॥८२६॥ लिङ्गाल्लिङ्गिनि विज्ञानमनुमानं यदुच्यते । तत्त्रुट्यतां क्वचिन्नीत्वा ततो निष्फलकल्पनम् ।। ८२७॥ तेभ्योऽप्यन्ये विकल्पाश्चेदणुतत्त्वग्रहक्षमाः। तत्राप्ययं प्रसङ्गः स्यात्स्वांशमात्रावलम्बनात् ॥८२८॥ तेभ्योऽप्यन्यविकल्पानां प्रक्लूप्तावनवस्थितेः । अणुतत्त्वपरिज्ञानं न युगेनापि सिद्ध्यति ।। ८२९॥ अवञ्चकत्वान्मानत्वं विचाराणां यदीप्यते । अवञ्चकत्वमेवेदमतज्ज्ञत्वे कथं भवेत् ॥८३०॥ सम्बन्धाच्चेन्न लिङ्गेष्वप्येवमेव प्रसञ्जनात् । लिङ्गानामेव मानत्वे व्यर्थिकवानुमा भवेत् ॥८३१।। तन्नार्थानवभासित्वे युक्तमर्थेष्ववचनम् । विकल्पानामतश्चेदं कोर्तेरझार्ने कीर्तितम् ॥ ८३२॥ "लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥" [प्र०वा० २।८२] इति ।
कथं वा सम्बन्धादपरिज्ञानादेव क्वचिदकञ्चनम् ; सर्वस्य प्रसङ्गात् । परिज्ञातादेवेति चेत् ; न ; परमाणूनामदर्शने तत्परिज्ञानानुपपत्तेः । भवतु तदर्शनमपीति चेत् ; न ; अस्मदादौ तस्याभावात् । भावे तदेव तेष्ववयव्यादिकल्पनस्य बाधकं स्यात् । तथा च यदुक्तम्- २५ 'अत्राप्यतीन्द्रियदर्शियोगिप्रत्ययो भवति बाधकः, यदि योगी भवेत्" [प्र०वार्तिकाल. ११९१] इति ; तदत्यन्तैफल्गुल्पितम् ; सन्निहितादस्मदादिदर्शनादेव तद्बाधने विप्रकृष्टपुरुपप्रत्ययात् तत्कल्पनानुपपत्तेः । योगिशब्देनास्मदादिरेवोच्यते तस्यापि देशतोऽतीन्द्रियार्थदर्शित्वादिति चेत् ; न ; 'यदि' इत्यादिविरोधात् । प्रत्यात्मवेदनीयस्यास्मदादिभावस्य अनाश.
विचाराणाम् । २ परमाणुसम्बन्धेऽपि । ३ अविसंवादित्वात् । ४ कीर्तनम् भा०, ब०, ५०, स०। ५ परमाणदर्शनस्य । ६ परमाणषु। .-स्ताघजल्पि-भा०,०, ९०, स०।८-दिविधानात् मा०,40, प.,स.।