________________
३३०
१५
न्यायविमिश्धयविवरणे
अभिन्नयोगक्षेमत्वे सत्येवमनुमानवत् ।
मानत्वं चेद्विकल्पानां मानद्वित्वं विलुप्यते ॥ ८२१ ॥
अमानत्वेऽप्यमानत्वादनुमानस्य किं च तैः ।
कथं प्रत्यक्षमानत्वं स्वांशमग्नैः प्रदीयताम् ॥ ८२२ ॥ इति ।
तदाह- 'पर्वनादि' इत्यादि । पर्वत आदिर्येषां समुद्रादीनां ते पर्वतादयः । विभ ज्यन्ते विशेषेण परिच्छिद्यन्ते यैस्ते विभागाः पर्वतादीनां विभागा पर्वतादिविभागास्तेषु संविदात्मसु । 'संविदात्मानः ' ' इत्यस्येह विभक्तिपरिणामेन सम्बन्धात् । तत्त्वं प्रमाणत्वम्, तच्छब्देन ‘प्रमाणमात्मसात्कुर्वन्' इत्यत' इहोपस्थितस्य प्रमाणस्य परामर्शः । वेत्ति जानाति । कः ? सौगतः । कैः ? विकल्पैः व्यवसायैः । कीदृशैः ? उत्तरैः प्रत्यक्षोत्तर१० कालभाविभिः इत्य तियुक्तिमत् । अत्रोपपत्तिमाह- 'स्वांश' इत्यादि । सुगमम् । यत्पुनरेतत् -" आवरणं तर्हि परमाणूनामसंसर्गात्कथम् ? इति न युक्तम् ; न वयविप्रतिबद्धमावरणं काप्युपलब्धं येन त्वाभावे परमाणुषु न स्यात्, तथा प्रतिघातादयः । अथैवमुच्यते
[१६६
छिद्रत्वात्परमाणूनां संहतेः स्यात्पटादिकम् । कथमावरणं वातस्यातपस्य जलस्य च ॥
अवयविसंयोगमन्तरेण परमाणव एव केवलाः अव्याहत परस्परान्त रानुप्रवेशाः कथमावरणभाजः १ अत्रोच्यते - असंसृष्टाः कथमवयविनं जनयन्ति ? संसर्गश्च नैकदेशेन ; तदभावात् । न सर्वाना ; अणुमात्रपिण्डप्रसङ्गात् । संयोगस्य पदार्थान्तरस्य जननेनेति चेत् ; तमेव संयोगं सान्तराः कथं जनयन्तीति समानः प्रसङ्गः । संसर्गे २० परमाणुमात्रपिण्डप्रसङ्गः । संसर्गश्चेत्; किं संयोगेनापरेण तथा अवयविना ? अथ सान्तरा एव संयोगमवयविनश्च जनयन्ति तथा सत्यावरणादिकार्यमपि किन्न जनयन्ति ?” [ प्र० वार्तिकाल ० १।९१] इति ।
1
२५
तत्राह - 'पर्वत' इत्यादि । विभज्यन्त इति विभागा विशेषाः स्वलक्षणपरमाणवः तेषु तत्त्वम् । किं तत् ? इत्याह- पर्वतादि । पर्वणो भावः पर्वता सा च आवेष्टकत्वमेव वंशादिपर्ववत् । अनेनावरणमुक्तम् । पर्वता आदिर्यस्य प्रतिघातादेः क्रियान्तरस्य तत् पर्वतादि । तत्किम् ? वेत्ति जानाति प्रज्ञाकरः । कैः ? विकल्पैः अनन्तरविचारैः । कीदृशैः १ उत्तरैः । नैयायिकादिं प्रति उत्तरीकृतैः इति अतियुक्तिमत् । अत्रोपपत्तिमाह - 'खांशम' इत्यादि ।
१ इलो० ६४ । २ इळ ० ५०। ३ संसर्गाभावप्रयुक्त-अवयवित्वाभावे । ४ तथा हि प्रति-भ्रा०, ब०, प०, स० । ५ स्याद्धटा-आ०, ब०, प०, स० । ६ -स्परानुप्र-आ०, ब०, प०, स० ।