________________
प्रथमः प्रत्यक्षप्रस्तावः
३२९
शुक्ले शुक्लविकल्पस्य सम्बन्धाच्चेद्विशिष्टता । न तस्यापि प्रमाणत्वप्रसङ्गादनुमानवत् ।।८०७।। गृहीतविषयत्वं तु स्वांशमात्रावलम्बिनः । न तस्य शक्यते वक्तुं यतः स्यादप्रमाणता ।।८०८।। 'एकत्वाध्यवसायेन स्वयं दृश्यविकल्प्ययोः । गृहीतग्रहणं तत्र कल्प्यते यदि सौगतैः ॥८०९॥ एकत्वं व्यवसायस्यैवांशो दृश्यविकल्प्ययोः । कथं यतो विकल्पस्य गृहीतग्रहणं भवेत् ।।८१०।। एकत्वाध्यवसायेनेत्यादेः पुनरुदीरणे । तदेवोत्तरमेवं स्यादनवस्था महीयसी ॥८११।। गृहीतार्थत्वमीक्षमनुमानेऽपि विद्यते । तत्कथं स्यात्प्रमाणं यत्प्रमाणद्वयमाञ्जसम् ॥८१२॥ प्रयोजनविशेषाश्चेत्तन्मानं कः स कथ्यताम् ? । निश्चयश्चेन्न शुक्लादिविकल्पेष्वपि तद्गतेः ।।८१३॥ प्रवृत्तिरिति चेन्नास्या अपि तत्रोपलम्भनात् । निश्चयादेव नीलादौ यतो लोकः प्रवर्तते ॥८१४॥ समारोपनिषेधश्चेत्सोऽपि तेष्वस्ति येन तैः । अप्रामाण्यसमारोपो दर्शनेषु निषिध्यते ॥८१५॥ न तत्र तत्समारोपो यस्य तैः स्यान्निषेधनम् । इति चेकिमिदानीं तद्विकल्पानामपेक्षया ॥८१६॥ अपेक्ष्येत परः कार्य यदि विद्येत किश्चन । यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ? ।। ८१७॥ ततस्तेषु तदारोपो गम्यतां तदपेक्षया । तनिषेधात्प्रमाणत्वं तद्विकल्पेष्वपि स्फुटम् ॥८१८॥ तस्मान्नासौ” विशेषः सः, वस्तुलेशग्रहो यदि । विकल्पेषु स किं नास्ति "शुकृतादेरुपमहात् ।।८१९॥ खांशमात्रावलम्बित्वात्तल्लेशग्रहणं कथम् । तेषु चेदनुमानं किं स्वांशादन्यत्र वृत्तिमत् ॥८२०॥
सम्बन्धश्चेद्विशिष्टतः भा०,ब०,५०, स०।२ एकत्वाद्यवसा-आ०, ब०,५०, स०।३ प्रयोजनविशेषः । ४ तद्तैः-आ०, ब०, ५०, स०। ५ चेत्तस्या अपि आ०,०,५०, स.। विकल्पेषु। . दर्शने। ८ अप्रामाण्यसमारोपः । ९प्र० वा. ३१२७९.। १० समारोपनिषेधः । शुक्लत्वादे-आ०, २०, प०, स. १३ विकल्पेषु ।