________________
३२८ न्यायविनिश्चयविवरणे
[११६६ पर्वतादिविभागेषु स्वांशमात्राविलम्बिभिः ॥६५॥ विकल्पैरुत्तरैत्ति तत्वमित्यतियुक्तिमत् । इति ।
पर्वतमहणं सर्वद्रव्योपलक्षणं पर्वतस्य द्रव्यत्वेन ततः तज्जातीयोपलक्षणोपपत्तेः । आदिशब्देन गुणादिपरिग्रहः । पर्वत आदिर्येषां ते पर्वतादयः, त एव परस्परतो विभज्य५ मानतया विभागाः विशेषास्तेषु । तत्त्वम् अयथार्थत्वम्, 'तेषामयथार्थानां भावस्तत्त्वम्' इति व्युत्पादनात् । तत् वेत्तिवज्जानाति सौगत इत्यतियुक्तिमद् अतिशयेन सयुक्तिकम्, उपहसनमेतत् अयुक्तिमत्येवमभिधानात् । कैः ? विकल्पैः विचारज्ञानैः । कीदृशैः ? उत्तरः उत्तरन्ति व्यवस्थावैकल्यादुत्प्लवन्त इत्युत्तरास्तैः, इत्यनेनोपहासे कारणमुक्तम् । तदाह
शून्याविकल्पवादेषु विकल्पानामसम्भवात् । तैः क्वचित्तत्त्वविज्ञानमुपहासास्पदं न किम् ? ॥ ७९९।। अनुपायं हि किञ्चिन्न कस्यचिसिद्धिमृच्छति ।।
अनुमायेष्टसिद्धौ हि कस्य केन दरिद्रता ।।८००।
भवन्तु वा विकल्पाः, तथापि तैः स्वांशमात्रे वातनारोपिताभिलाप्याकारलक्षणे पर्यवसितैः क्वचिदन्यत्र तत्त्वपरिज्ञानमतियुक्तिमदेवेत्यावेदयन्नाह-स्वांशात्रावलम्बिभिः १५ इति । तथा हि
स्वरूपमात्रनिर्मग्नर्विकल्पैस्तत्त्ववेदनम् । कथमन्यत्र यद्रव्याद्ययथार्थ प्रकल्प्यते ॥८०१।। अनुमानादिवान्यत्र तदाभासादपि स्वयम् । तत्त्वज्ञानं कुतो न स्यादविशषाद्विदोस्तयोः ॥८०२॥ अनुमानस्य साध्येन सम्बन्धाच्चे विशिष्टता । सम्बन्धोऽपि विकल्पान्न परतः शक्यवेदनः ॥८०३।। ततोऽपि स्वात्मनिर्मग्नात्सम्बन्धप्रतिपत्कथम् । सम्बन्धे तस्य सम्बन्धादेवं सत्यनवस्थितिः ।।८०४।। विकल्पजननान्मानं येन प्रत्यक्षमुच्यते । अनयैव च पद्धत्या निषिद्धः सोऽपि बुद्ध्यते ॥८०५॥ शुक्लस्य दर्शनं यद्वन्मानं शुक्लविकल्पतः । स्यात्पीतादिविकल्पादप्यविशेषात् पुरोदितात् ॥८०६।।
-मात्रविलम्बि-ता० । २ सर्वत्रप्र-आ०, २०, ५०, स. । ३ ततः स्व जाती-आ०, २०, ५०, स.। -नां च संभ-आ०, ब०, प., स.। ५-णपर्य-स.। -मात्रविलम्बि-ता। -द्विशिष्यता मा., ..., प., स.10विकल्पादपि ।