________________
११६४ ] प्रथमः प्रत्यक्षप्रस्तावः
३२७ प्रसिद्धः सांशस्थूल आकारो यस्य तस्मिन् वस्तुनि सति भ्रान्तं मणिभ्रमणं यदित्यधिकृत्य सम्बन्ध; तदा कामम् अतीव तद्धान्तं साधु शोभनं मणिप्राप्याऽवगम्यते । ने चैवम् ; अनेकान्तविद्वषिणस्तदाकारस्य वस्तुनोऽसम्भवादिति भावः। संवृत्या तदाकारमेव वस्तु परस्यापि प्रसिद्धमिति चेत् ; न; दृष्टान्तवहार्दान्तिकेऽपि सांवृतस्यैव वस्तुनो मिथ्याज्ञानतः प्रसिद्धिप्रसङ्गात् । भवत्येवमिति चेत् ; न; परमतानतिशायनात् ।
"सत्त्वादिवदसत्त्वादि संवृत्यैव यदीष्यते । परपक्षाद्विशेषस्ते कस्तदा वस्तुतो भवेत् ? ॥७९५॥ संवृत्या च वरं तत्त्वं सत्त्वाद्येवोपकल्पितम् । तत्र स्वर्गापवर्गादिसुखसम्प्राप्तिसम्भवात् ॥७९६॥ न सर्ववस्तुनैरात्म्यनिर्विकल्पादि तत्रवत् । न ह्यलौकिकमन्यद्वा किञ्चिदिष्टमवाप्यते ॥७९७॥ प्रयोजनवदुन्मुच्य निष्प्रयोजनमाश्रयन् ।
प्रेक्षावत्तां कथं नाम कक्षीकत्तु क्षमो भवान् ॥७९८॥ तन्न सांवृतं तत्त्वमित्युपपन्नम् ।।
भवतु वास्तवमेवेति चेत् ; न; तस्य मिथ्याज्ञानादसिद्धेः । सर्वेषामपि सर्त एवाभि- १५ मतसिद्धिप्रसङ्गात् । तदाह
अयमेवं न वेत्येवमविचारितगोचराः ॥३३॥ जायेरन् संविदात्मानः सर्वेषामविशेषतः ॥ ताव्रता यदि किश्चित्स्यात् सर्वेऽमी तत्त्वदर्शिनः ॥६४॥ इति ।
अयं बहिरन्तश्च प्रतीयमानो भावः एवं शुन्यतादिरूपेण न वा नैव एवं सत्त्वादि. २० रूपेण एवमित्यस्य इति शब्दव्यवहितस्यात्र सम्बन्धात् । इत्येवमविचारितगोचरा अनाघातविषया जायेरन् उत्पद्यरन् संविदात्मानो विज्ञानस्वभावाः सर्वेषां प्रवादिनाम् अविशेषतो विशेषमन्तरेण । ततः किम् ? इत्याह-तावता तज्जननमात्रेण यदि चेत् किञ्चित् शून्यादिकं स्यात् भवेत् सर्वे निरवशेषा अमी वैशेषिकादयस्तत्त्वदर्शिनः स्वाभिमतद्रव्यादिपदार्थतत्त्वदर्शनशीलाः स्युरिति वचनपरिणामेन सम्बन्धः ।
द्रव्यादीनां विचारासहत्वादयथार्थत्वमेवेति चेत् ; न; शून्यादावपि तदसहत्वाविशेपात् । कथं वा द्रव्यादेविचारासहत्वम् ? कथञ्च न स्यात् ? शून्यनिर्विकल्पवादिनोविचारस्यैवासम्भवात् , सतोऽपि तस्य स्वांशमात्रपर्यवसानात् । तदाह
तथाकारमतीव तद्धान्त-आ०, ५०, ५०, सः। तच्छब्देन । २ न चैकान्त-मा०,०, ५०, सा ३ संवित्त्या ४ भवतैवमि-मा०, ब०, ५०,स०। ५ सत्तादि-आ०,०, ५०, स०।। मिथ्याज्ञानादेव । ७-वश्वा जा-आ०, ब०,५०, स० ।