________________
३२६
म्यायविनिश्चयविवरणे
[९६३ त्रापि समुच्चयात् । तत् अनन्तरोक्तम् 'न हि' इति सम्बन्धः । कदा ? 'असत्यासतत्वयोः सत्त्वसतत्त्वप्रत्यनीकयोरसचासतत्त्वयोः सतोरिति ।
स्यान्मतम्-सांवृतमपि विज्ञानमसत्त्वादिविषयमेव तत्त्वसिद्धिनिबन्धनं न 'सत्त्वादिवि. पयमिति; तन्न; मिथ्यात्वाविशेषात् । मिथ्याज्ञानमपि मणिप्रभामणिज्ञानमेव तन्निबन्धनं तत्र ५ मणिप्रप्त्या परितोषदर्शनात न प्रदीपप्रभामणिज्ञानं विपर्ययात् , तद्वतापीति चेत्, न; तत्रापि विभ्रमे तदनुपपत्तेः । तथा हि-न मणिप्रभामणिज्ञानं तनिबन्धनं भ्रान्तत्वात् प्रदीपप्रभामणिज्ञानवत् । कथमेवं ततः प्रवृत्तस्य मणिप्राप्तिरिति चेत् ? न; सन्निहितस्यान्यत एव सत्यज्ञानातत्प्राप्तेः । तदेवाह
परितुष्यति नामैकः प्रभयोः परिधावतोः॥६॥
मणिभ्रान्तेरपि भ्रान्तौ मणिरत्र दुरन्वयः ॥ इति ।
परिधावतोः प्रवर्त्तमानयोर्मध्ये एकः परितुष्यति मणिप्राप्त्या नापरो विपर्ययात् । कुतः परिधावतोः १ मणिभ्रान्तेरपि न केवलं तदभ्रान्तेः । क्व तद्भ्रान्त ? प्रभयोः द्विवचनान्मणिप्रदीपप्रभयोरिति । नामशब्देनावारुचिमावेदयन् तत्रोपपत्तिमाह.
भ्रान्तौ अत्र मणिज्ञाने मणिदुरन्वयो दुरनुगमो दुरवायो वेति । तदनेन साध्यसमत्वं १५ दृष्टान्तस्य दर्शितम् । परो दृष्टान्तसमर्थनमाह
सति भ्रान्तेरदोषश्चेत् [तत्कुतो यदि वस्तु न] ॥३२॥ इति ।
सति हि मणौ तत्प्रभामणिज्ञानात्मा भ्रान्ति सति, तस्माददापः मणिरत्र दुरन्वयः इति दोषो नास्ति, सत्येव मणौ भवन्त्यास्ततस्तदन्वयस्यावश्यम्भावादिति भावः । तदुक्तम्
"मणिप्रदीपप्रभयोर्मणिबुद्धयाऽभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥" [प्र० वा० २।५७] इति । घेच्छब्दः पराभिप्राये । तत्रोत्तरमाह-'तत्कुतो यदि वस्तु न' इति । वस्तु मणिरूपं यदि न विद्यते तत् 'सति' इत्यादि कुतो न कुतश्चिदपि । तथा हि -कीदृशं तद्वस्तु ? शून्यमिति चेत् ; सुस्थितं तस्यास्तत्प्रापकत्वम् । सकलविकल्पविकलमिति चेत्; न; तस्याप्यन
नुभवात् । निरंशपरमाणुरूपमित्यपि श्रद्धानमात्रम् ; अनुभवप्रत्यनीकत्वात् । नानावयवसाधारणं २५ स्थूलमिति चेत् ; अत्राह
कामं सति तदाकारे तद्रान्तं साधु गम्यते ।
सतत्वयोः-आ०,०,१०, स.। २ सतरवादिवि-आ., ब०, ५०, स.। ३ तन्मि-मा०, ब०,५०, स०। ४ तरवसिद्धिनिबन्धनम् । ५ सत्ये मणौ भा०,०,१०, स.। ६ भ्रान्तेः । भवन्त्यास्तदन्व-आ०,०, प., स.। मणिप्राप्तेः। ८ मणिभ्रान्तेः । ९ मणिप्रापकत्वम् ।